________________
२९६
आचारागसूत्रम् १/-12/८/२४१
चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति 'वर्तमानसामीप्ये वर्तमानवद्वे'त्यनेन भविष्यत्कालस्य वर्तमानता। मू. (२४२) कसाए पयणू किच्चा, अप्पाहारे तितिक्खए।
अह भिक्खू गिलाइज्जा, आहारस्सेव अन्तियं वृ.सचाभ्युद्यतमरणायंसंलेखनांकुर्वन्प्रधानभूतां भावसंलेखनांकुर्यादित्येतद्दयितुमाहकषः-संसारस्तस्यायाः कषायाः-क्रोधादयश्चत्वारस्तान्प्रतनून कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपिनप्रकाममितिदर्शयति-'अल्पाहारः' स्तोकाशीषष्ठाष्टमादिसंलेखनाक्रमायातंतपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्मवः स्यादतस्तदुपशमो विधेय इति दर्शयति-तितिक्षते-असशजनादपि दुर्भाषितादि क्षमते, रोगातङ्कवा सम्यक् सहत इति, तथाच संलेखनांकुर्वन्नाहारस्याल्पतया अथे' त्यानन्तर्ये भिक्षुः' मुमुक्षुः ग्लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणेमूर्छानाहारस्यैवान्तिकं-पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादिसंलेखनाक्रनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं नव्रजेत्, तथाहि आहारयामितावत्कतिचिद्दिनानि पुनः संलेखनाशेष विधास्येऽहमित्येवंनाहारान्तिक-मियादिति मू. (२४३) जीवियं नाभिकंखिजा, मरणं नोवि पत्थए।
दुहओऽविन सजिजा, जीविए मरणे तहा। वृ. किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङेक्षत्, नापिक्षुद्वेदनापरीषहमनधिसहमानोमरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्ग विदध्यात् जीविते मरणे तथा॥ किं भूतस्तर्हि स्यादित्याहमू. (२४४) मज्झत्यो निजरापेही, समाहिमनुपालए।
अन्तो बहिं विऊस्सिज्ज, अज्झत्थं सुद्धमेसए। वृ. रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत्समाधिस्थोऽनुपालयेदिति भावः। अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति मू. (२४५) जंकिंचुवकमंजाणे, आऊखेमस्समप्पणो।
तस्सव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए॥ वृ.किंच-उपक्रमणमुपक्रमः-उपायस्तंयंकञ्चनजानीत, कस्योपक्रमः?-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्पालनंतस्य, कस्यसम्बन्धितदायुः?-आत्मनः, एतदुक्तंभवति-आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीतं तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान्
'तस्यैव' संलेखनाकालस्य अन्तरद्धाए'त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकासन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org