________________
श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:प
२९३ कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आहच-सेवितत्ववियंतिकारए' इत्यादिपूर्ववद्गतार्थम्, इतिब्रवीमिशब्दावपि क्षुण्णार्थावित्।
अध्ययन-८ उद्देशकः-६समाप्तः
-अध्ययनं-८ उद्देशकः-७ :वृ. उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वमावनामावितस्य धृतिसंहननाद्युपेतस्येङ्गितरमणमभिहितम्, इह तु सैवैकत्वभावनाप्रतिमाभिनिष्पाद्यतइतिकृत्वाऽतस्ताःप्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतच पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (२३६) जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तएएगयरेअनतरेविरुवरुवेफासेअहियासित्तए, हिरिपडिच्छायणंचऽहंनोसंचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणंधारित्तए।
वृ.योभिक्षुःप्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-ग्वासाः 'पर्युषितः' संयमेव्यवस्थितो 'णम्' इतिवाक्यालशाहारे तस्य' 'भिक्षोः एव मितिवक्ष्यमाणोऽभिप्रायोभवति, तद्यथा-शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनामावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुफूलप्रत्यनीकान् विरूपरूवान् ‘स्पर्शान्' दुःखविशेषानध्यासयितुं-सोदुमिति,
किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनंहीप्रच्छादनं, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतयावास्यात्, एवमेभिः कारणेः 'स तस्य 'कल्पते' युज्यते कटिबन्धनं चोलपट्टकं कर्तु, सचविस्तरेणचतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतप्रतिपादयितुमाह
मू. (२३७) अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया।
वृ.सएवंकारणसद्भावेसतिवस्त्रंबिभृयादथवानैवासौजिहेति, ततोऽचेलएवपराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाःस्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूवान् स्पर्शानुदीर्णाधिसहते असावचेलोऽचेललाघवमागयमयन्नित्यादि गतार्थं यावत् 'सम्मत्तमेव समभिजाणिय'त्ति॥ किं च-प्रतिमाप्रतिपन्नएव विशिष्टमभिग्रहंगृहीयात्, तद्यथा-अहमन्येषांप्रतिमाप्रतिपन्नानामेव किञ्चिद्दा स्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्मङ्गिकयाऽभिग्रहविशेषमाह
मू. (२३८) जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org