________________
२९२
आचारागसूत्रम् H८/६/२३५ तथाऽल्पावश्ययाये अधस्तनोपरितनावश्यायविषुड्वर्जित, तथाऽल्पोदके मौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामईटसन्तानरहिते, तत्रोत्तिकः-पिपीलिकासन्तानकः पनकोभूम्यादावुल्लिविशेषःउदकमृत्तिका-अचिराप्कायार्दीकृतामृत्तिकामर्कटसन्तानको लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत, किं कृत्वा?.
तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य २,अत्रापिवीप्सयाभृशार्थतासूचिता,संस्तीर्यचतॄणान्युचारप्रस्रवणभूमिचप्रत्युपेक्ष्यपूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपिकाले जिनकल्पिकादेरसम्भवात, किंपुनर्यावत्कथिकभक्त-प्रत्याख्यानावसरइति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-यद्यहमस्माद्रोगात् पञ्चटषैर-होभिर्मुक्तः स्यां ततो मोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् इङ्गित्तमरणधृतिसंहननादिबलोपेतःस्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तंच॥१॥ “पञ्चक्खइआहारंचउन्विहं नियमओ गुरुसमीवे।
__ इंगियदेसंमितहा चिटुंपिहु नियमओ कुणइ ॥२॥ उव्वत्तइ परिअत्तइकाइगमाईऽविअप्पणा कुणइ।
सव्वमिह अप्पणचिअण अन्नजोगेण धितिबलिओ" तचेङ्गितमरणं किम्भूतं किम्भूतश्चप्रतिपद्यत इत्याह-तद् इङ्गित्तमरणंसम्यो हितंसत्यं, -सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्य-तथ्यं, तथा स्वतोऽपिसत्यं वदितुं शीलमस्येति सत्यवादी, यावजीवं यथोक्तानुष्ठानद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः' रागद्वेषरहितः, तथा 'तीर्णः संसारसागरं, भाविनिमूतवदुपचारात्तीर्णवत्तीर्णइत्यर्थः, तथा छिना' अपनीता कयं कथमपिया 'कथा' रागकथादिका विकथारूपायेन स छित्रकयंकयः, यदिवा कथमहमिङ्गित्तमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिना येन स छिन्त्रकथंकयः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, सतुपुनर्महापुरुषतया नव्याकुलतामियादिति,
तथाआ-समन्तादतीवइताज्ञातापरिच्छिन्नाजीवादयोऽर्थायेनसोऽयमातीतार्थ आदत्तार्थी वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ताःअर्थाः-प्रयोजनानियस्यसतथा, उपरतव्यापारइत्यर्थः, तथा आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः स एवम्भूत इङ्गित्तमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा प्रोज्झयस्वयमेव भिद्यते इति भिदुरं-प्रतिक्षणविशरारुं _ 'काय कर्मवशाद्गृहीतमौदारिकंशरीरंत्यक्त्वा, तथा संविधूय परीषहोपसर्गानप्रमथ्य 'विरूपरूपान्' नानाप्रकारान्सोढा 'अस्मिन् सर्वज्ञप्रणीत आगमे विम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवं-भयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवानअनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमितिदर्शयितुमाह-'तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि,नकेवलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org