________________
श्रुतस्कन्धः - १, अध्ययनं-८, उद्देशक-५
२८९ स्वादयिष्यामीतितथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहत्य प्रतिज्ञामेवम्भूतां, तद्यथानान्वीक्षिष्वेऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४,
एवम्भूतांचनानाप्रकारांप्रतिज्ञांगृहीत्वाकुतश्चिद्ग्लायमानोऽपिजीवितपरित्यागंकुर्यात, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-एवम्' उक्तविधिना ‘स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्ततमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयनित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्तः' कषायोपशमाच्छ्रान्तो वाअनादिसंसारपर्यटनाविरतः सावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वायेन स सुसमाहृतलेश्यः,
एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपिकालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यःकालपर्यायोमृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात्, स भिक्षुस्तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुप सञ्जिहीर्षुराह-सर्वं पूर्ववद् ।
अध्ययनं-८-उद्देशकः-५ समाप्तः
अध्ययनं-८-उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचामभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिबलोपेत एकत्वभावनांभावयनिङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम्
मू. (२३१) जे भिक्खू एगेण वत्येण परिवुसिए पायाबिईएण, तस्स णं नो एवं भवइबिइयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिला जाव गिम्हे पडिवन्ने अहापरिजुनंवत्थं परिछिवि ज्जा २ ताअदुवाएगसाडेअदुवाअचेलेलाघवियं आगममाणे जावसम्मत्तमेव समभिजाणीया।
वृ.गतार्थं ।। तस्यचभिक्षोरभिग्रहविशेषात्सपात्रमेकंवस्त्रंधारयतः परिकर्मितमतेर्लधुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह
मू. (२३२) जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवंसे एगागिणमेवअप्पाणंसमभिजाणिज्जा, लाघवियंआगममाणेतवेसेअभिसमन्नागए भवइ जाव समभिजाणिया।
वृ. 'णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः “एव'मिति वक्ष्यमाणं भवति, तद्यथाएकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वे द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वाप्राणिनां, एवमसौ साधुरेकाकिनमेत्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया 119
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org