SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० आचाराङ्ग सूत्रम् 9/-14/६/२३२ शरण्यो द्वितीयोऽस्तीत्येवंसंदधानो यद्यद्रोगादिकमुपतापकारणमापद्यतेतत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आहलाघवियमित्यादि, चतुर्थोद्देशकवदतार्थं, यावत् सम्मत्तमेवसमभिजाणिय'त्ति॥इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउफसंतो समणा!' अहं खलु तव अट्ठाए असणंवा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाइं भूयाइंजीवाइं सत्ताई समारंभ समुद्दिस्सं कीयं पामिचं अच्छेझं अणिसिटुंआहढचेएमि' इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, "सियाय से एवं वयंतस्सविपरोअभिहडं असणंवा ४ आहहुदलएज्जा" इत्यादिना ग्रन्थेना ततो ग्रासैषणाऽवशिष्यते, अतस्तप्रतिपादनायाह मू. (२३३) से भिक्खू वा भिक्षुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्त्रागए भवइ, जमेयं भगवया पवेइयंतमेवं अभिसमिचा सव्वओ सम्मत्तमेव समभिजाणिया। वृ.'स' पूर्वव्यावर्णितो 'भिक्षुः साधुःसाध्वी वाअशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धंच गृहीतंसदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषो निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारदर्शयति-सभिक्षुराहारमाहारयनोवामतोहनुतोदक्षिणांहनूरसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन, तत्सञ्चरास्वादनेन हि रसोपल्ब्धौरागद्वेषनिमित्तेअङ्गारित्वाभिधूमितत्वे स्यातमतोयत्किञ्चिदप्यास्वादनीयंनास्वादयेत, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूर्छितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङक्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वैषो परिहरन्नास्वादयेदिति, तथा कुतश्चिनिमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति । किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितोभवति, एवंचतपः से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् ‘सम्मत्तमेव समभिजाणिय'त्ति॥ तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह मू. (२३४) जस्स णं भिक्खुस्स एवं भवइ-से गिलामि चत खलु अहं इममि समए इमं सरीरंग अनुपुव्वेण परिवहित्तए, से अणुपुव्वेणं आहारं संवट्टिजा, अनुपुव्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगायवट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे। वृ.'णम्' इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य “एव मिति वक्ष्यमाणोऽभिप्रायो भवति, ‘से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये खलुः' अवधारणे, अहंचास्मिन् समये अवसरे संयमावसरेग्लायामिग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टतं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम्, अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्याचतुर्थषष्ठाचाम्लादिकयाआहारं संवर्तयेत्' संक्षिपेत्न पुनदशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy