SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ आचाराङ्ग सूत्रम् १/-1८/५/२२९ अन्नेवातहप्पगारे"त्ति,कण्ठ्यं, तदेवंप्रतिषिद्धोऽपिश्रावकसंज्ञिप्रकृतिभद्रकमिथ्याष्टीनामन्यतम् एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुंन चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किंच मू. (२३०)जस्सणं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिंअभिकंखसाहम्मिएहिं कीरमाणंवेयावडियंसाइजिस्सामि, अहंवाविखलुअप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्स कुजा वेयावडियं करणाए आहटु परिनं अणुक्खिस्सामि आहडंच साइजिस्सामि १,, ___ आहट्ट परिनं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आहट्ट परिनं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ३, आह? परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि४ एवं से अहाकिट्टियमेव धम्मसमभिजाणमाणे संतेविरएसुसमाहियलेसेतत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहायणं हियं सुहं खमंनिस्सेसं आनुगामियं -तिबेमि। वृ. “णम्' इति वाक्यालङ्कारे यस्यत भिक्षोः परिहारविशुद्धिकस्य यथालन्तिकस्य वाऽयंवक्ष्यमाणः प्रकल्पः' आचारो भवति, तद्यथा-अहंचखलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलषिष्यामि, किम्भूतोऽहं ?-प्रतिज्ञप्तोवैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परेः?-अप्रतिज्ञप्तोः-अनुक्तेः, किम्भूतोऽहं-लानो-विकृष्टतपसाकर्तव्यताऽशक्तो वातादिक्षोभेण वाग्लान इति, किम्भूतैरपरैः?–अग्लानैः-उचितकर्तव्यसहिष्णुभिः, तत्रपरिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितां वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीनि दर्शयति निर्जराम् 'अभिकाङ्ग्य उद्दिश्य 'साधर्मिकैः सशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणंवैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायंय भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपिजीवितंजह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः ।तदेवमन्येन साधर्मिकेणवैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतंस एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहंचपुनरप्रतिज्ञप्तः-अनभिहितःप्रतिज्ञत्पस्य-वैयावृत्यकरणायाभिहितस्यअग्लानो ग्लानस्वनिर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्यां, किमर्थं ? 'करणाय तदुपकरणाय तदुपकारायेत्यर्थः, तदेवंप्रतिज्ञांपरिगृह्यापिभक्तपरिज्ञयाप्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञांगृह्णाति, तद्यथा-ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहृत्य-प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy