________________
श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः३
२८३ ग्लानतेन्द्रियाणामिति प्रतिपादितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह -
मू. (२२२) ओए दयं दयइ, जे संनिहाणसत्थस्सखेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणने वियणन्ने परिग्गहं अममायमाणे कालेणुहाइाअपडिन्ने दुहओछइत्ता नियाई।
वृ. 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिसादिपरीषहे 'दयामेव दयते' कृपा पालयति, नपरीषहैः तर्जितो दयांखण्डयतीत्यर्थः। कः पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यनिधीयते नारकादिगतिषु येन तत्सन्निधानकर्म तस्य स्वरूपनिरूपकंशास्त्रं तस्य खेदज्ञोनिपुणो, यदिवासनिधानस्य-कर्मणःशस्त्रं-संयमःसन्निधानशस्त्रंतस्यखेदज्ञः-सम्यक्संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः।
__कालज्ञः-उचितानुचितावसरज्ञः, एतानिच सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा वलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्चेत्ता, सचैवम्भूताः संयमानुष्ठाने निश्चयेन यातिनिर्यातीति॥
तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह -
मू. (२२३) तंभिक्खं सीयफासपरिवेवमाणगायंउवसंकमित्ता गाहावईबूया-आउसंतो समणा! नोखलुतेगामधम्माउव्वाहंति?,आउसंतोगाहावई!नोखलु ममगामधम्माउवाहंति, सीयफासंचनोखलु अहं संचाएमिअहियासित्तए, नो खलु मे कप्पइअगणिकायंउज्जालित्तए वा कायं आयावित्तएवापयावित्तए वा अन्नेसिंवावयणाओ, सियास एवं वयंतस्सपरोअगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज्ज वा पयाविज्ज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए -त्तिबेमि।
वृ. 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थंसम्यकत्वक्राणाभावतयाशीतस्पर्शपरिवेपमानगात्रंउपसङक्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतोमृगनाभ्युनविद्धकश्मीरजबहलरसानुलिप्तदेहोमीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुःप्रौढसीमन्तिनीसन्दोहपरिवृत्तो वार्तीभूतशीतस्पर्शानुभवःस किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदोमत्सीमन्तिनीरवलोक्यसात्त्विकभावोपेतःकम्पतेउतशीतेनेत्यवं संशयानो ब्रूयात्-भोआयुष्मन्! श्रमण! कुलीनतामात्मन आविर्भावयन्प्रतिषेधद्वारेण प्रश्नयतिनोभवन्तंग्रामधाः -विषयाउत्-प्राबल्येन बाधन्ते?,एवंगृहपतिनोक्तेविदिताभिप्रायःसाधुराहअस्य हिगृहपतेरात्मसंचित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूदुअतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे-आयुष्मन् ! गृहपते!
'नो खलु' नैव ग्रामधा मामुद्बधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्मितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणासाक्षिप्तहृदयोब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमितिनसेवसे?,महामुनिराहभो गृहपते! न खलु मे कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्जवालयितुं) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुंवा, अन्येषां वावचनात्ममैत्कर्तुन कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुंन कल्पते ममेति ।तंचैवंवदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org