SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/८/३/२२३ स्यात्- कदाचित्स - परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकार्यमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा - अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत् - प्रतिबोधयेत्, कया ? - अनासेवनया, यथैतत् ममायुक्तमासेवितुं भवता तु पुनः साधुभक्तयनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमितिशब्दावुक्तार्थौ । अध्ययनं - ८ - उद्देशकः ३ - समाप्तः २८४ -: अध्ययनं ८ - उद्देशक:- ४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थं आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसग्येयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२४) जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइचउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइं इज्जा अहापरिग्गहियाइं वत्थाइं धारिज्जा, नो धोइज्जानो धोयरत्ताइं वत्थाइं धारिज्जा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खुवत्यधारिस्स सामग्गियं । वृ. इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवौघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्मं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्क्षतीत्येतद्दर्शयतियो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकं पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्त्रैरिति दर्शयति-‘पात्रचतुर्थैः' पतन्तमाहारं पातीति पात्र, तद्ग्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽ पिगृहीतः, तेन विना तद्गहणाभावात्, स चायम् 119 11 "पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो' 99 तदेवं सप्तप्रकारं पात्र कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः ‘णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन्काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकाल - श्चापतितस्ततौऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत उत्कर्षणापकर्षण-रहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र “उद्दिट्ठ १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतोतस्रोवस्त्रैषणा भवन्ति, तत्र चाधस्तन्योर्द्वयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानी धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म्म कुर्याद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy