SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/८/३/२२० मू. (२२०) मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उववायं चवणं च नच्चा । वृ. इह त्रीणि वयांसि युवा मध्यमवया वृद्धश्चेति, तत्र मध्यभवयाः परिपक्वबुद्धित्वाद्धमर्ह इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्म्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्याद्योग्यत्वाच्च प्रायो विनिवृत्त भोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुध्यमानाः समुत्थिता इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च, तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थकृदादीनां 'वचनं' हिताहितप्राप्तिपरिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्वं पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ? - यतः समतया-माध्यस्थ्येनार्यैः- तीर्थकृद्भिर्धम्मः श्रुतचारित्राख्यः 'प्रवेदितः' आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्मं सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याहते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वावंति' त्ति सर्वस्मिन्नपि लोके, चः समुच्चये सच भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत्, किंच- प्राणिनो दण्डयतीति दण्ड:परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिप्त्वा त्यक्त्वा 'पापं पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान् ' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्म्मवर्जी स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैग्लानतां नीयन्त इति दर्शयितुमाह - मू. (२२१) आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं बृ. आहारेणोपचयो येषां ते आहारोपचयाः, के ते? - दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथ 'परीषहप्रभञ्जिनः' परीषहैः सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीषहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लयमानैः क्लीबतामीयुः, तथाहि क्षुत्पीडितो न पश्यति न श्रृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, २८२ स्यान्मतं- अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति ?, अत्रोच्यते, तस्यापि चतुः कार्म्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरंबिभृयात्, तध्धरणंच नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाच्चेति, तथाहि - वेदनीयसद्भावात्तत्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy