SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशक:३ २८१ चावेदयेत, सत्यांचशक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदशम्-अनन्यसदृशंस्वपरक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथसामर्थ्यविकलः स्यात्कुप्यतिवाकथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य श्रृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यथाभावेतुवाग्गुप्तयाव्यवस्थितःसन्नात्महितमाचरन् ‘गोचरस्य पिण्डविशुद्धयादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः?-आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यतइत्याह-'बुद्धैः कल्प्याकल्प्यविधिज्ञैः ‘एतत् पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह मू. (२१८) से समणुन्ने असमणुनस्सअसमणं वाजाव नो पाइज्जा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेभि। वृ.न केवलं गृहस्थेभ्यः कुशीलेभ्यो वाअकल्प्यमितिकृत्वाऽऽहारादिकंन गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थो। किम्भूतस्तर्हि किम्भूताय दद्यादित्याह - मू. (२१९) धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुनस्स असणं वाजाव कुज्जा वेयावडियं परं आढायमाणे।-त्तिबेमि । वृ.'धर्मं दानधर्मांजानीत यूयं प्रवेदितं कथितं, केन?-श्रीवर्द्धमानस्वामिना, किम्भूतेन ‘मतिमता' केवलिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञ;-साधुरुद्यक्तविहारीअपरस्मैसमनोज्ञाय चारित्रवते संविग्नाय साम्भोगिकायैकसामाचारीप्रविष्टयाशनादिकं चतुर्विधं तथा वस्त्रादिकमपिचतुर्द्धा प्रदद्यात्' प्रयच्छेत्, तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यम्अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्योगृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तुसमनोज्ञेभ्य एवपरम्-अत्यर्थमाद्रियमाणस्तदर्थसीदनेपरमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवंगृहस्थादयः कुशीलादयस्त्याज्या इतिदर्शितम्, अयंतुविशेषो-गृहस्थेभ्योयावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इति ब्रवीमिशब्दौ पूर्ववद् । * अध्ययनं-८ - उद्देशक-२ -समाप्तः अध्ययन-८ - उद्देशकः३:वृ.उक्तो द्वितीयोद्देशकः, साम्प्रतंतृताय आरभ्यते, अस्यचायमभिसम्बन्ध;-इहानन्तरोद्देशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्यदातुर्यथावस्थितपिण्डदानप्ररूपणा च, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोत्वकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतोगीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धनायातस्यास्योद्देशकस्यसूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy