________________
श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशकः १
·
२७७
पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह- 'तदेव' एतत्पापानुष्ठानमुप- सामीप्येनातिक्रम्यअतिलङ्घ्य यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धस्रवदारैः संभाषणमपि करिष्ये ?, आस्ता तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदक:कथं तीर्थिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति ?,
"
- तथाहि तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्य:नारण्यवासादिना धर्मः अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किंच सदसद्विवेकिनो हि धर्म्मः, सच ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्म्मनिमित्तं यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्म्मः प्रवेदितः, अपि तु जीवादित्तत्त्वपरिज्ञानात् सम्यगनुष्ठानाञ्च्च, अतस्तं धर्ममाजानीत 'प्रवेदितं कथितं 'माहणेण 'त्ति भगवता, किम्भूतेन ? -
-
-‘मतिमता' मननं-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः । किंभूतो धर्म्मः प्रवेदित इत्याह – 'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा- प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धवमाषष्टेः द्वितीयस्तत उर्द्धवं तृतीय इति अतिबालवृद्धयोर्म्युदासो, यदिवा यम्यते - उपरम्यते संसारभ्रमणादेभिरिति यामाः- ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैव ततः किमित्याह- 'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्म्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ? - ये 'निर्वृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्म्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ॥
कच पुनः पापकर्म्मस्वनिदाना इत्यत आह
मू. (२१४) उड्ढं अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक्कं जीवेहि कम्मसमारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा नेवेने एएहिं काएहिं दंडं समारंभाविज्जा नेवेने एएहिं काएहिं दंडं समारंभंतेऽवि समनुजाणेज्जा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिंपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नंवा नोदंड भी दंडं समारंभिज्जासि -त्तिबेमि ॥
वृ.उर्द्धवमधस्तिर्यग्दिक्षु ‘सर्वतः' सर्वैः प्रकारैः सर्वायाः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येकं जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्म्मसमारम्भः जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्म्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ? 'मेघावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह नैव स्वयमात्मना 'एतेषु' चतुर्द्दशभूतग्रामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उपमर्दं समारभेत, न चापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात्, ये चान्ये दण्डं समारभन्ते, सुब्व्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्म्मसमारम्भं महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेघावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद्विभेतीति दण्डभीः सन्नो 'दण्डं' प्राण्युपमर्दादिकं समारभेताः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् ।
अध्ययनं -८- उद्देशकः-१ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org