SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७६ आचाराङ्ग सूत्रम् १/-/८/१/२१२ प्रागेवाभावः सर्वगतत्वं वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच अस्तेव्यार्पकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्धयतीति ?, उतास्तित्वादन्यो लोकइत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि - नास्ति लोक इति ब्रुवन्, वाच्यः - किं भवानस्तुयुत नेति ?, यद्यस्ति किं लोकान्तर्वर्त्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि ?, ― अथ बहिर्भूतस्ततः स्वरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनः स्वयमभ्यह्य प्रतिक्षेप्तव्या इति, 'एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-निर्युक्तिकः, एवं ध्रुवानुवादयोऽपि वादा नियुक्तिकः एवेति, अस्माकंतु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युपदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च“सदेव सर्वं को नेच्छेत्, स्वरूपादिचतुष्टयात् ? । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥" 11911 इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाध्रुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यह्यायोज्य इति । साम्प्रतमुपसंहरति - ‘एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्म्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ।। किं स्वमनीषिकिया भवतेदमभिधीयते ?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्म्मो भवतीत्याह - मू. (२१३) से जहेयं भगवया पवेइयं आसुपत्रेण जाणया पासया अदुवा गुत्तीवओगोयरस्स त्तिबेमि सव्वत्य संमयं पावं, तमेव उवाइक्कम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रणे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे निव्वुया पावेहिं कम्मेहिं अनियाणाते वियाहिया ॥ वृ. तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता ' श्रीवर्द्धमानस्वामिना प्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति- आशुप्रज्ञेन, निरावरणत्वात्, सततोपयुक्तेनेत्यर्थः, किं यौगपद्येन ?, नेति दर्शयति'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं यथा नैषामेकान्तवादिनां धर्म्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य - भाषासमितिः कार्येत्येतप्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाध्रुवादिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्टयधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि वक्ष्यमाणं चेत्याह Jain Education International - तान् वादिनो वादायोत्थितानेवं ब्रूयाद् - यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पाप' For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy