________________
श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः
२७५
॥१॥
"द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एवच ।
क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते॥" इत्यादि, तदेवं परमार्थमजानानाअस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपिप्रति विवदन्ते, तद्यथा-सुष्ठुकृतंसुकृतमितिवादुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रवज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वाअसाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथासिद्धिरितिवाअसिद्धिरितिवानरकइतिवाअनरक इतिवा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्तइति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम् - ॥१॥ "इच्छंति कृत्रिमंसृष्टिवादिनः सर्वमेव मितिलिङ्गम् ।
कृत्स्नं लोकंमाहेश्वरादयः सादिपर्यन्तम्॥ ॥२॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवंलोकम् ।
द्रव्यादिषड्विकल्पंजगदेतत्केचिदिच्छन्ति । ॥३॥
ईश्वरप्रेरितं केचित्केचिद्बह्मकृतं जगत्।
अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः।। ॥४॥ ___ यादृच्छिकमिदं सर्वं, केचिद्भूतविकारजम्।
केचिच्चानेकरूपंतु, बहुधा संप्रधाविताः॥" इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्प्यन्ति, तदुक्तम् - ॥१॥ “लोकोक्रियाऽऽत्मतत्त्वे विवदन्तेवादिनो विभिन्नार्थम् ।
अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ।।" येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्रचसूत्रकृतादौ विस्तरेणसुविहितत्वादिति।तेचविवदन्तः परस्परतोविप्रतिपन्नाः 'मामकम्' इत्यात्मीयं धर्मप्रज्ञापयन्तःस्वतोनष्टाः परानपिनाशयन्ति, तथाहि केचित्सुखेनधर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धर्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति, तेषामुत्तरं दर्शयति___ -'अत्रापि' अस्ति लोको नास्ति वेत्यादौ जानीत यूयम् 'अकस्मादिति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यक्षा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि-यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद्एवंचतत्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वालोक एवालोकः स्याद्, व्याप्यसद्भावेव्यापकस्यापिसद्भावादलोकाभावः, तदभावेचतप्रतिपक्षमृतस्यतोकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org