________________
२७८
आचाराङ्ग सूत्रम् १/-/८/२/२१५
-: अध्ययन-८ - उद्देशक:-२ :
बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
मू. (२१५) से भिक्खू परिक्कमिज्ज वा चिट्ठज्ज वा निसीइज्ज वा तुयट्टिज्ज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई बूया - आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायुपुच्छणं वा पाणाइं भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अनिसट्टं अभिहडं आहट्टु चेएमि आवसहं वा समुस्सिणोमि से भुंजह वसह,
आउसंतो समणा ! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई वा ८ समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिन्नं अनिसट्टं अभिहडं आहड्ड चएमि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए ।
वृ. 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रवणाध्तः, तथा श्रान्तः क्वचिदध्वानादीत्वग्-वर्त्तनंवा विदध्यात् कैतानि विदध्यादिति दर्शयति-' श्मशाने वा' शबानां शयनं श्मशानं पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनंन सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि गच्छ्वासिनस्तत्र स्थानादिकंन कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात्, तथा जिनकल्पार्थं सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् -
एवमन्यदपि यथासम्भवमायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्या व'त्ति अन्यत्र वा ग्रामोदेर्बहिस्तं भिक्षं कचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधुं श्मशानादिषु परिक्रमणादिकांक्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्ब्रूयात्-यथैते लब्धायलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुत्पत्ठिते, वक्ति च
-
आयुष्मन् ! भोः श्रमण ! अहं संसारावर्णवं समुत्तितीर्षुः 'खलुः' वाक्यालङ्कारे 'तवार्थाय ' युष्मन्निमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य-आश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्वासनिश्वासादिस-मन्विताः प्राणिनस्तान्, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवतवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सत्त्वास्तान् समारम्य - उपमर्द्य, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org