________________
२७२
__ आचाराङ्ग सूत्रम् 9/12/-/- [नि. २७३] स्खलितनमस्कारा-घध्ययनायापगतवातमुखयन्त्रप्रचारार्थं पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्वं विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ' अनन्तरंपादपोपगमनं करोति, इङ्गितमरणंवा भक्तप्रत्याख्यानंवा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः।
अनयाचद्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्याक्रमेण आहारंपरितनुंकुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहनि. [२७४] कह नाम सोतवोकम्मपंडिओजोन निच्चुजुत्तप्पा।
लहुवित्तीपरिक्खेवं वच्चइजेमंतओ चेव? ॥ नि. [२७५] आहारेण विरहिओ अप्पाहारोय संवरनिमित्तं ।
हासंतो हासंतो एवाहारं निरुंभिज्जा। वृ. कथं नामासौ तपःकर्मणिपण्डितः स्यात्?,योन नित्यमुधुक्तात्मा सन् वर्तनवृत्तिःद्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुञ्जान एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान्वावासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं? – “संवरनिमित्तम् अनशननिमित्तं, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च हासयन् ह्रासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः ।। उक्तो नामनिष्पन्नो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -
-अध्ययन-८ उद्देशकः-१:मू. (२१०) से बेमिसमणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमंवा साइमं वा वत्यं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेज्जा नो निमंतिजा नो कुञ्जा वेयावडियं परं आढायमाणे –त्तिबेमि।
वृ.सोऽहंब्रवीमियोऽहं भगवतःसकाशात्ज्ञातज्ञेय इति, किं तद्बवीमि?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञोऽष्टितो लिङ्गतो नतु भोजनादिभिः तस्य,तद्विपरीतस्त्वसमनोज्ञः-शाक्यादिस्तस्यवा, अश्यतइत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति खादिमकर्पूरलवङ्गादि, तथावस्त्रंवापात्रंवापतग्द्रहं वाकम्बलंपादपुञ्छनंवा, नोप्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुषभोगाय नो वितरेत, नापि दानार्थं निमन्त्रयेत, न च तेषां वैयावृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाणइति, अत्यर्थमादरवानतेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् नच तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकार-परिसमाप्तौ ।।
एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह
मू. (२११)धुवंचेयंजाणिज्जा असणंवा जावपायपुंछणं वालभियानो लभिया भुंजिया नोभुजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्मजोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे-त्तिबेमि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org