SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-८, उपोद्घातः २७१ 'विवेकः परित्यागः कार्यः, ततः 'घट्टना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः,भावार्थस्तुकथानकादवसेयः,तच्चेदम्-एकेनसाधुना द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि-यथाऽद्यापिसंलिख, ततोऽ,कुपितः त्वगस्थिशेषामङ्गुलीं भङ्कत्वा दर्शयति, किमत्राशुद्धमिति?,आचार्योऽपियेनाभिप्रायेणोक्तवांस्तमाविष्करोति-अत एवाशुद्धो भवान्, -यतो वचनसमनन्तरमेवाङ्गुलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा-कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानव तोऽपिनस्वस्थतामियातां, पुनरागन्तुकेन वैद्येनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनांतितिक्षसे वेदनातश्चनमांघातयसीति, राज्ञाचाभ्युपगतं,अजनप्रक्षेपान न्तरोमूततीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादानमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, -एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तुशीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थं विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशंप्रतिपद्यते ततो गच्छ एव तिष्ठतोघटनादुर्वचनादिभिः कदर्थना क्रियते, यदिच तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ॥ किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याहनि. [२७०] निष्फाईया य सीसा सउणी जह अंडगं पयत्तेणं। बारससंवच्छरियं सो संलेहं अह करेइ॥ नि. [२७१] चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि। संवच्छरे यदुन्नि उ एगंतरियं तु आयामं ।। नि. [२७२] नाइविगिट्ठो उ तवो छम्मासे परिभियं तुआयामं । अन्नेऽविय छम्मासे होइ विगिढ़ तवोकम्मं ।। नि. [२७३] वासं कोडीसहियं आयामं काउ आनुपुव्वीए। गिरिकंदरंमि गंतुंपायवगमणं अह करेइ॥ वृ.सूत्रार्थतदुभयैः स्वशिष्याःप्रातीच्छका वा निष्पादिता' योग्यतामापादिताःशकुनिनेवाण्डकंप्रयत्नेन, ततोऽसौ 'अथ' अनन्तरं द्वादशसांवत्सरिकी संलेखनांकरोति, तद्यथा-चत्वारि वर्षाणि विचित्राणि विचित्रतपोऽनुष्ठानवन्तिभवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिकेकृतेपारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनिचतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-- -तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्तमेव पारणकं, द्वादशंतुसंवत्सरंकोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुङ्को आचाम्लस्य कोट्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषान Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy