________________
आचाराङ्ग सूत्रम् १/-/८/-/- [नि. २६५ ]
सपराक्रमैरेव रथावर्त्तशिखरिणि पादपोपगमनकारीति । साम्प्रतपराक्रमं दर्शयितुमाहनि. [२६६ ] अपरक्कममा सो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरक्कमं मरणं ॥
वृ. न विद्यते पराक्रमः- सामर्थ्यमस्मिन्नित्यपराक्रमं किं तत् ? - मरणं, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नाम् आर्यसमुद्राणां मरणमभूद्, अयमादेशो ध्ष्टान्तो वृद्धवा-दायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः ॥
भावार्थस्तु कथानकादवसेयः, तच्चेदम् आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासनू, पश्चाच तैर्जङ्घाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनकारि ॥ साम्प्रतं व्याघातिममाहवाघाइयमाएसो अवरद्धो हुज अन्नतरणं । तोसलि महिसी हओ एयं वाघाइयं मरणं ॥
नि. [२६७ ]
वृ. विशेषेणेणाघातो व्याघातः सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिहाद्यन्यतरेणापराद्धो भवेद् आरब्धो भवेत् तेन यन्मरणं तद्वयाघातिमं, तत्र वृद्धवादायात आदेशो- दृष्टान्तः, यथा - तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपग-तवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बह्वयो महिष्यः सम्भवन्ति, ताभिश्चकदाचिदेक; साधुरटव्यन्तर्वत्यारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ।। साम्प्रतमव्याघातिमप्रति - पादनेच्छयाऽऽह
नि. [२६८ ]
अनुपुव्विगमाएसो पव्वज्जासुत्तअत्थकरणं च ।
वीसज्जिओ (य) निन्तो मुक्को तिविहस्स नीयस्स ॥
२७०
वृ. आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ ? - आदेशो- वृद्धवादः, स चायं, तद्यथापूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति,
तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्यं विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जित गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात्, एवमुपाध्यायः प्रवर्त्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिकर्म्मा भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ॥ द्रव्यसंलेखनायां तु केवलायां दोपसम्भवादित्याह
नि. [ २६९ ] पडिचोइओ य कुविओ रण्णो जह तिक्क सीयला आणा । तंबोले य विवेगो घट्टणया जा पसाओ य ॥
वृ. प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहितः 'कुपितः क्रुद्धो यथा च राज्ञः पूर्वं तीक्ष्णाज्ञा पश्चाच्छीतलीभवति एवमाचार्यस्यापि, 'तम्बोले ' नागवल्लीपत्रे च कुथिते शेषरक्षणाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org