________________
श्रुतस्कन्धः-१, अध्ययनं-८, उपोद्घातः
२६९ दकषाययोगपरिणतेन जनितानि-बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षयातेन कर्मणा सर्वविवेकः' सर्वाभावरूपतयायोविश्लेषस्तस्य-जन्तोः 'अर्थ'त्युपप्रदर्शन एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः ।
उक्तो भावविमोक्षः, सचयस्यभवति तस्यावश्यंभक्तपरिज्ञादिमरणत्रयान्यतरेणमरणेन भाव्यं, तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतातिपादयितुमाहनि. [२६३] भत्तपरिन्ना इंगिणि पायवगमणंच होइ नायव्वं ।
जो मरइचरिममरणं भावविमुक्खं वियाणाहि ।। वृ. भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदंचतुर्विधाहारनिवृत्तिस्वरूपंविशिष्टसंहननवतः स्वतएवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यं, तथापरित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेणचेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमनं-वर्तनंपादपोपगमनमेतच ज्ञातव्यं भवति,
-योहि भवसद्धिकश्चरमं-अन्तिममरणमाश्रित्य म्रियतेसएतत्पूर्वोक्तत्रयान्यतरेणमरणेन म्रियते, नान्येनवैहानसादिनाबालमरणनेत्येतच्चानन्तरोक्तंमरणंचेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्मावमोक्षं विजानीहीतिगाथार्थः।।साम्प्रतमेतदेवमरणंसपराक्रमेतरभेदा द्विविधमिति दर्शयितुमाहनि. [२६४] सपरिक्कमेय अपरिक्कमएयवाधाय आणुपुव्वीए।
सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं ॥ वृ. पराक्रमः' सामर्थ्य सहपराक्रमेणवर्ततइतिसपराक्रमस्तस्मिंश्चमरणंस्यात, तद्विपर्यये चापराक्रमे-जवाबलपरिक्षीणे तद्भक्तपरिजेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात्प्रत्येकंद्वैविध्यमनुभवति, तदपिव्याघातिमेतरभेदाद्विधा भवेत्, तत्रव्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तुप्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूाविपक्रिममायुष्कक्षयमनुभवतोयो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति___व्याघातेनानुपूर्व्या वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतयासमाधिमरणमेवकर्तव्यं, भक्तपरिजेङ्गितमरणपादपोपगमनानामन्यतरद्यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्तव्यमिति गाथार्थः॥
तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहनि. [२६५] सपरक्कममाएसोजह मरणं होइ अजवइराणं ।
पायवगमणंच तहा एयं सपरक्कममरणं॥ वृ.सह पराक्रमेण वर्तत इति सपराक्रम, किं तत् ? - मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातोवृद्धवादोयमैतिह्यमाचक्षते, सआदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेवयथाऽऽर्यवैरैविस्मृतकर्णाहितश्रृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org