________________
श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशकः १
वृ. ते हि शाक्यादयः कुशीला अशनादिकमुपयैवं बूयुः, यथा ध्रुवं चैतज्जानीयात्नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मध्धृ तयेऽवश्यमागन्तव्यं, अलब्धे लाभाय लब्धेऽपि विशेषाय भुक्ते पुनः पुनर्भोजनाय भुक्तेऽपि प्रथमालिकार्थस्मध्धृ तये यथाकथञ्चिदागन्तव्यं, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपम एवास्मदावसथो भवतां वर्त्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावत्त्यापि वक्रपथेनाप्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति -
'विभक्तं' पृथग्भूतं धर्म्यं 'जुषन्' आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे' त्ति समागच्छन् तथा ‘चलेमाणे 'त्ति गच्छन् ब्रूयाद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्नयवद्वैयावृत्त्यं कुर्यात्, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात्, कथं परम्-अत्यर्थमनाद्रियमाणः - अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतपूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह
मू. (२१२) इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्टी अनुवयमाणा हण पाणे घायमाणा हणओयावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तंजहा- अत्थि लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्क डेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धित्ति वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्थवि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ ।
-
२७३
वृ. 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्म्मविपाकानामाचरणामाचारीमोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः नो सुष्ठु निशान्तः परिचितो भवति ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह - 'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः तथा विहारारामतडागकूपकरणाद्देशिकभोजनादिभिर्धर्म्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो घ्नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाका स्तिरोहितशुभाध्यवसायाः 'आददति' गृह्णन्तीति, किं च
-तत्र प्रथमतृतीयव्रते अल्पवक्तव्यत्वात् पूर्वं प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, ‘अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधं-नानाप्रकारा युञ्जन्ति, 'तद्यथे' त्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्त्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठिन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहु:
118
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org