SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ आचारागसूत्रम् १/-/६/५/२०८ परिसमाप्तौ, ब्रवीमीत्येतत्पूर्वोक्तं यदि वैतद्वक्ष्यमाणमित्याह मू. (२०९) कायस्स वियाघाए एससंगामसीसे वियाहिएसेहुपारंगमेमुनी, अविहम्ममाणे फलगायवट्ठी कालोवणीए कंखिज्ज कालं जाव सरीरभेउ-त्तिबेमि॥ वृ. 'कायः' औदारिकादित्रयंघातिचतुष्टयं वा तस्य व्याघातो' विनाशः, अथवाचीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणयाघातो व्याघातः-शरीरविनाशः एषसङ्गङग्रामशीर्षरूपतयाव्याख्यातो,यथा हिसङ्गाम शिरसिपरानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यकत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले नमुह्यति स पारगामी मुनिः संसारस्य कर्मणो वाउक्षिप्तभारस्य वा पर्यन्तयायीति। किं च-विविधं परीषहोपसर्गर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपः परीषहोपसर्गः, फलकवदवतिष्ठतेनकातरीभवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं' मरणकालमायुष्कक्षयं यावच्छरीस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्केद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति। इतिरधिकारपरिसमाप्ती, ब्रवीमीत्यादिकं पूर्ववदिति, अध्ययनं-६-उद्देशकः-५ समाप्तः अध्ययन-६-समाप्तम् मुनि दीपरलसागरेण संशोधिता-संपादिता शीलाका चार्यविरचिता प्रथमश्रुत स्कन्धेषष्ठंअध्ययनटीका परिसमाप्ता सप्तम् अध्ययनम् व्युच्छिन्नम् (अध्ययनं-८-विमोक्षं वृ. उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिन्नमितिकृत्वाऽतिलझ्याष्टमस्यसम्बन्धो वाच्यः, सचायम्इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाःसोढव्याइत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यतेइत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिका; प्रागभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारो बिभणिपुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy