________________
श्रुतस्कन्धः- १, अध्ययनं-६, उद्देशक-५
२६५ सावद्यानुष्ठानंचेति, एवंचब्रुवन्नुभयदोषपरिहारीजन्तूनामाश्वासभूमिर्भवतीति, एतध्टान्तद्वारेण दर्शयति-यथाऽसौद्वीपोऽसन्दीनः शरणंभवत्येवमसावपिमहामुनिःतद्रक्षणोपायोपदेशतःवध्यमानानां वधकानां च तदघ्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहियथोद्दिष्टेन कथाविधानेन धर्मकथां कथयन्कांश्चनप्रव्राजयतिकांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतमापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह
'एव मिति वक्ष्यमाणप्रकारेण 'स' शरण्योमहामुनिर्भावोत्थानेनसंयमानुष्ठानरूपेण उत्प्राबल्येनस्थित उत्थितः, तथा स्थितोज्ञानादिकेमोक्षाध्वन्यात्मायस्यसस्थितात्मा, तथास्निह्यतीति स्निहो न स्निहोऽस्निहः-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति, तथाचलःअनियतविहारित्वात्, तथासंयमाद्बहिर्निर्तगालेश्याअध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, सच किमिति संयमानुष्ठाने परिव्रजेदित्याह
‘संख्याय' अवधार्य 'पेशलं' शोभनं धर्म अविपरीतार्थं दर्शन-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान्, स च कषायोपशमात् क्षयाद्वा, परिः-समन्तानिवृतः--ीतीभूतो। यस्त्वसङ्ख्यातवानपेशलंधर्ममिथ्याष्टिरसौननिर्वातीतिदर्शयितमाह-इतिहेतौयस्माद्विपरीतदर्शनो मिथ्याष्टिः सङ्गवान्ननिर्वातितस्मात् 'सङ्ग मातापितुपुत्रकलत्रादिजनितंधनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिताअवबद्धाविषण्णा ग्रन्थसङ्गेनिमग्नाःकामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्-संयमान्निःसङ्गात्मकात् ‘नोपरिवित्रसेत्' न संयमानुष्ठानाबिभीयात्, यतःप्रभूततरदुःखानुषङ्गिणोहि सङिन इति । कस्य पुनः संयमान परि वित्रसनं सम्भाव्यत इत्याह_ 'यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात्प्रत्यक्षासन्नावाचिनेदमाऽभिहिताः सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूताआरम्भाः?-येष्विमेग्रन्थग्रथिता विषण्णाः कामभराक्रान्ताजना लूषिणो' लूषणशीलाः हिंसकाअज्ञानमोहोदयात् ‘नपरिवित्रसन्ति' नबिभ्यति, योह्येवम्भूतांश्चारम्भान्ज्ञपरिज्ञयापरिज्ञाय प्रत्याख्यानपरिज्ञयाच परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्भाणां परिज्ञातास किमपरं कुर्यादित्याह
‘स' महामुनिः पूर्वव्यावर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीयं त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः-अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org