________________
२६४
-
आचाराङ्ग सूत्रम् १/-/६/५/२०७ अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा उपशमं' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयौरेहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौचं' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धता-परित्यागात्, तथालाघवंसबाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेतिदर्शयति_ 'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति?. 'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा सर्वेषांभूतानां मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थितानां, तथा सर्वेषांजीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्गनरामराणां संसारे क्लिश्यमानतयाकरुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानिइत्यतस्तेषांक्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलोभिक्षुधर्मकथालब्धिमान् ‘आचक्षीत प्रतिपादयेदिति।यथाचधर्मकथयेत्तथाऽऽह
मू. (२०८) अणुवीइ भिक्खू धम्माइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाइं भूयाइंजीवाइं सत्ताइं आसाइजा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणंजीवाणं सत्ताणंजहा से दीवे असंदीणे एवं से भवइ सरणंमहामुनी, एवं से उहिए ठियप्पा अनिहे अचले चले अबहिल्लेसे परिव्वए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लूहाओ नो परिवित्तसिजा, जस्सिमे आरंभा सव्वओ सव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, से वंता कोहं च माणं य मायंच लोभं च एस तुट्टे वियाहिए-त्तिबेमि॥
वृ.स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेणधर्मं पुरुषं वाऽऽलोच्ययो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आङितिमर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत्, तथाधर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मनआशातना द्विधा-द्रव्यतोभावतश्च, द्रव्यतोयथाऽऽहारोपकरणादेर्द्रव्यस्यकालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात्तथाकथयेदिति, तथा नोपरंशुश्रूष आशातयेद्-हीलयेद्, य; परोहीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेतेति, अतस्तदाशातनां वर्जयन् धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽ- ननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धपिताकानुभवः स्यात्, उक्तंच॥१॥ “जे उदानं पसंसंति, वहमिच्छंति पाणिणं।
जे उणंपडिसेहिंति, वित्तिच्छेअंकरिति ते" तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्ध प्ररूपयेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org