________________
श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशक:५
२६३
प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसर्गितो न चासौ तासु लुलुभे मन्दरवनिष्पकम्पोऽभूदिति ४।
-तैर्यग्योनाअपिभयप्रद्वेषाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्रभयात्सादिभ्यः,प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाज्जना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतोवा स्पर्शाः-दुःखविशेषाआत्मसंवेदनीयाःस्पृशन्ति-अभिभवन्ति,तेचतुर्विधाः-तद्यथाघट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्खादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादगुल्यादेवस्यिात्, वदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्क्रिश्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिताः स्पर्शाः-दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान्-दुःखविशेषान् ‘धीरः' अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्यध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति ।
-कीक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनाता सदुपदेशदानतः परेषामपीति दर्शयितुमाह-'ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शन' दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवासमतामितंगतंदर्शन-दृष्टिरस्येति समितदर्शनः, समष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धायधर्ममाचक्षीतेतिदर्शयति-'दयां' कृपां लोकस्य जन्तुलोकस्योपरिद्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतोयावजीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत? -तद्यथा-सर्वेजन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तंच॥१॥ “न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः ।
एष सङ्गाहिको धर्मः, कामादन्यः प्रवर्तते" इत्यादि, तथाधर्मामाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वाधर्मविभजेत्, यदिवाकोऽयं पुरुषःकंनतो देवता विशेषमभिगृहीतोऽनभिगृहितोवा? एवंविभजेत्, तथाक्रीत्तयेद्वतानुष्ठान फलं, कोऽसौ कीर्तर्यद् ? वेदविद् आगमवदिति । नागार्जुनीयास्तु पठन्ति- “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धर्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभूधम्मस्स आघवत्तए" इति, कण्ठ्यं । स पुनः निमित्तभूतेषु कीर्तयेदित्याह__“स' आगमवित् स्वसमयपरसमयज्ञः “उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पाश्र्वानाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामंधर्मप्रवेदयेदिति, स्वशिष्येषुवासदोस्थितेष्वज्ञातज्ञापनाय धर्मंप्रवेदयेदिति, अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूषमाणेषु धर्मश्रोतुमिच्छत्सु गुवदिः पर्युपास्तिं कुर्वत्सु वा संसारोत्तारणाय धर्माप्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org