________________
श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:४
२६१ परदत्तभोइणोपावंकम्मंन करेस्सामोसमुट्ठाए" सुगमत्वान्न विव्रयते, इत्येवंसमुत्यायपूर्वपश्चात् 'पश्य' निभालय 'दीनान्' श्रृगालत्वविहारिणो वान्तं जिघृक्षून पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो 'वशार्ता' वशा इन्द्रियविषयकषायाणां तत आर्ता वशार्ताः, तथाभूतानां च कर्मानुषङ्गः, तदुक्तम्-'सोइंदियवसट्टेणंभंते! कइ कम्मपगडीओबंधइ?,गोयमा! आउअवज्जाओसत्तकम्मपगडीओ जाव अनुपरिअट्टइ। कोहवसट्टेणं भंते! जीवेएवंतंचेव" एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसगर्गोपनिपाते सति विषयलोलुपा वा कातराः।
__ केते?-जनाः, किंकुर्वन्ति?-तेप्रतिभग्नाःसन्तः लूषकामवन्ति व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहाम्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्ग भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति।तेषांचपश्चात्कृतलिङ्गानांयत्स्यात्तदाह-'अथ आनन्तर्ये 'एकेषां भग्नप्रतिज्ञानामुत्प्रव्रजितानांतत्समनन्तरमेवान्तर्मुहूर्तेन वापञ्चत्वापत्तिः स्याद्, एकेषां तु श्लोको' श्लाघूरूपः पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययशः-कीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठस मानो भोगाभिलाशी व्रजति तिष्ठति वा, नास्य विश्वसनीयं, यतो नास्याकर्त्तव्यमस्तीति, उक्तंच॥१॥ “परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत्।।
आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हितः?" इत्यादि, यदिवा सूत्रेणैवाश्लाध्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तोभग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च पश्यत यूयं कर्मसामर्थ्यम् ‘एके' विश्रान्तमागधेयाः समन्वागतैरुधुक्तविहारिभिःसह वसन्तोऽप्यसमन्वागताः-शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेनविनयवद्भिः 'अनममानान्' निपुणतयासावद्यानुष्ठायिनो, विरतैरविरताद्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपिसाधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य ज्ञात्वा किंकर्तव्यमितिदर्शयति-पण्डितः' त्वंज्ञातज्ञेयो मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो वीरः' कर्मविदारणसहिष्णुर्भूत्वा आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा सर्वकालं परिक्रामयेरिति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् ।।
अध्ययनं-६ उद्देशकः-४ समाप्तः
अध्ययन-६- उद्देशकः ५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतंपञ्चमआरभ्यते, अस्यचायमभिसम्बन्धः,इहानन्तरोद्देशके कर्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
मू. (२०७) से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसुवा जणवयेसुवाजणवयंतरेसुवा गामनयरंतरेवा गामजणवयंतरेवानगरजणवयंतरे वासंतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओह समियदसणे, दयं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only