________________
२५८
आचाराङ्ग सूत्रम् १/-/६/४/२०१
उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि “कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि,
ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकाद्यपि कार्य, स्यादेतत् किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हिश्रृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वाप्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनिशास्त्राण्यधीयते, यदिवा अनेनोपायेनलोकसम्मता जीविष्याम इतिकृत्वैके निष्काम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तोजीविष्यामः संयमजीवितेनेत्येवंनिष्क्रम्यपुनर्मोहोदयाद् असम्भवन्तः-तेगौरवत्रिकान्यतरदोषात्ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदाद्भिः यमा वेदितं तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति
नास्मिन्विषये भवान् किञ्चिजानाति, यथाऽहं सूत्रार्थं शब्दं गणितं निमित्तं वाजाने तथा कोऽन्यो जानीते ?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्तातीर्थकृदादिस्तमपि परुष वदन्ति, तथाहि-क्क चित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्तनादपीति, इत्यादिभिरपाचीनैरालापरलीकविद्यामगदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः॥न केवलं शास्तारंपरुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह
मू. (२०२) सीलमंता उवसंता संखाएरीयमाणा असीला अनुवयमाणस्स बिइयामंदस्स बालया।
__ वृ. शीलम्-अष्टादशशीलाङ्गसहस्रसङ्घयं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तताचेत्येतच्छीलं विद्यतेयेषांतेशीलवन्तः, तथाउपशान्ताः कषायोपशमात्, अत्रशीलवद्गहणेनैवगतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थं, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या
प्रज्ञातया रीयमाणाः' संयमानुष्ठाने पराक्रममाणाःसन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽतु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्टयादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुधुक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते कवैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह
मू. (२०३) नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्टा दंसणलूसिणो।
वृ. एके-कर्मोदयात् संयमानिवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वास यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only