SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक : ४ प्रातीच्छकाश्च दिवाच रात्रौ च 'अनुपूर्वेण' क्रमेण 'वाचितः' पाठिताः, तत्र कालिकमह्नः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेललावर्जं सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा युगमात्रष्टिना गन्तव्यम् कूर्म्मवत्सङ्कुचिताङ्गेन भाव्यमित्याद्येवं शिक्षां ग्राहिता वाचिताःअध्यापिताः, कैरिति दर्शयति - तैर्महावीरेः - तीर्थकरैर्गणधराचार्यादिभिः किम्भूतैः ? - प्रज्ञानवभिः ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्आचार्यादीनाम् अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, ‘उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्तवोपशमं - स च द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्योपशमः कतकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा- आक्षेपण्याधन्यतरया धर्म्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुशपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्यं' परुषतां 'समाददति' गृह्णन्ति, तद्यथा परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि अपि च-कश्चिदेव माध्शः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च119 11 “पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्ये च माध्गेवान्तरं गच्छेत्' द्वितीयस्वाह - नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह - सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते ?, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन् भाषते, उक्तं च "अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्गयमित इति खादत्यङ्गानि दर्पेण क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लुतां वा क्षुल्लको नयति' 11911 11 इत्यादित पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारुहंति” त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एकेन सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरः- कम्पनादिना वा प्रतिवचनं ददति । किंच एके पुनर्ब्रह्मचर्यं - संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्यं तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भर्त्वितास्तामाज्ञांतीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दोदेशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीबाकुशिकतामालम्बन्ते यदिवा अपवादमालम्ब्य वर्त्तमाना ॥२॥ 117 Jain Education International 1 २५७ For Private & Personal Use Only "1 www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy