SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ आचाराङ्गसूत्रम् १/-/६/३/२०० प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुल्लञ्जयस्वैरित्वाद्यथाकथञ्चिक्रियासुप्रवत्ततस उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञोद्वौपुत्री, तत्रज्येष्ठोधर्मधोषाचार्यसमीपेसंसारासारतामवगम्यप्रवव्राज, क्रमेणचाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पंप्रतिपित्सुःद्वितीयां सत्त्वभावनांभावयति, साच पञ्चधा तत्र प्रथमोपाश्रये द्वीताय तद्वहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् भ्राता क्वास्ते?,साधुभिरमणि-किं तेन?,सआह-प्रव्रजाम्यहं,आचार्येणोक्तो-गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपिददाति, जिनकल्पंप्रतिपत्तुकामइति, आसावाह-तथाऽपिपश्यामितावदिति, निर्बन्धेदर्शितः, तूष्णीभावस्थितएववन्दितः,तदनुरागाच निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्मवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्राजात इत्यवष्टम्भेन मोहात्तथैव तस्थै यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज़्यायान् हृदयेनैव देवतामाह किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सात्ववादीत्-जीवप्रदेशैर्मुक्ताविमौगोलकौनशक्यौपुनर्नवीकर्तुइत्युकत्वाऋषिवचनमलङ्घनीयमित्यवधार्यतत्क्षणश्वापाकव्यापादितैलाक्षिगोलको गृहीत्वातदक्ष्णोश्चकार। इत्येवमनुपदेशप्रवर्तनंसापाय-मित्यवधार्य शिष्येणसदाऽऽचार्योपदेशवर्तिनाभाव्यम्, आचार्येणापिसदास्वपरोपकारवृत्तिनासम्यक्स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरनाह-यथा द्विजपोतो मातपितृभ्यामनुपाल्यते एवमाचार्येणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचितैः' पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत्। अध्ययनं-६-उद्देशकः-३ समाप्तः अध्ययन-६-उद्देशकः-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्यद्भूननार्थमिदमुपक्रम्यत इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्छेदम् मू (२०१) एवंतेसिस्सा दियायराओयअनुपुव्वेण वाइयातेहिं महावीरेहिं पन्नाणमन्तेहि तेसिमंतिए पन्नाणमुवलब्म हिचा उवसमं फारुसियं समाइयंति, वासित्ता बंभचेरंसि आणं तं नोत्ति मन्त्रमाणा आधायं तु सुच्चा निसम्म, समणुना जीविस्सामो एगे निक्खमंते असंभवंत विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाधायमजोसयंता सत्थारमेव फरुसंवयंति वृ. एवम्' इतिद्विजपोतसंवर्द्धनक्रमेणैव तेशिष्याः' स्वहस्तप्रव्राजिता उपसम्पदागताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy