________________
२५०
आचाराङ्ग सूत्रम् १/-/६/२/१९६ वा केशोत्पाटनतः पूर्वकृतकर्म्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा
“पावाणं च खलु भो कडाणं कम्माणं पुव्विदुञ्चिन्नाणं दुप्पडिक्कंताणंवेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलिअं 'ति कर्म्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रव्रजित ! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विद्यते एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह-'अतथ्यैः' वितथैरसद्मूतैः शब्दैश्चीरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शैश्च असद्भूतैः साधोः कर्त्तुमयुक्तैः करचरणच्छेदाभिः स्वकृतादृष्टफलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा
"पंचहिं ठाणेहिं छउमत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहाजक्खाइट्ठे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिन्नाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्टइ परितावेइ ४, ममं चणं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्पनिज्जरा हवइ ५ ।
- पंचहि ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्मं सहिस्संति जाव अहियासिस्संति" इत्यादि, परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह-एकतरान्अनुकूलान् अन्यतरान्-प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोहरिणोमन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा ह्रीरूपाः- याचना - चेलादयः, अड्रीमनसश्च - अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच
मू. (१९७) चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो नगिना वृत्ता जे लोगंसि अनागमणधम्मिणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुबिंम अदुवा दुबिंभ अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि-त्तिबेमि ॥
वृ. त्यक्त्वा सर्व्वा परीषहकृतां विनोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः ? - सम्यग् इतं गतं दर्शनं यस्य स समितदर्शनः, सम्यग्धष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-'भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्म्मो येषां तेऽनागमनधर्म्माणः यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं चआज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्वं पारक्यमित्यतस्तमहमाज्ञयाः तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्म्मोऽनुपाल्यत इत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org