SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:२ २४९ कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्माना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति । एतदेवोपसञ्जिहीर्षुराह __ “एवं पूर्वोक्तप्रकारेण 'स' भोगाभिलाषीआन्तरायिकैः कामैः-बहुप्रत्यपायैः न केवलमकेवलंतत्रभवाआकेवलिकाः-सद्वन्द्वाःसप्रतिपक्षाइतियावत् असम्पूर्णावा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्याः ॥अपरेत्वासन्नतया मोक्षस्यकथञ्चित्कुतश्चित् कदाचिदवाप्य चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीतिदर्शयितुमाह मू. (१९६) अहेगे धम्ममायाय आयाणप्पभिइसुपणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिनाय, एस पणए महामुनी, अइअच सव्वओ संगनमहं अस्थित्तिइय एगो अहं, अस्सि जयमाणे इत्थ विरएअनगारे सव्वओमुंडे रीयंते, जे अचेले परिवुसिएसंचिक्खइओमोयरियाए, से आकुढे वा हए वा लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा। वृ. 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धर्मं श्रुतचारित्राख्यं 'आदाय' गृहीत्वावस्त्रपतद्ग्रहादिधर्मोपकरणसमन्विताधर्मकरणेषुप्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तंच॥१॥ “यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः" किम्भूताः पुनधर्मं चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ताधर्मचरणे ढाः' तपःसंयमादौद्रढिमानमालम्बमानाधर्माचरन्तीति, किंच-सर्वां 'गृद्धिं' भोगकाङ्क्षा दुःखरूपतयाज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञयापरित्यजेत् तत्परित्यागे गुणमाह-'एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रह्नः संयमे कर्मधुननायां वा महामुनिर्भवति नापर इति । किंच-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः ‘सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पततआलम्बनायस्यादिति, तदभावाच्च इति उक्तक्रमेणैकोऽहमस्मिन् संसारोदरे, नचाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-'अत्र' अस्मिन् मौनीन्द्रे प्रवचने विरतःसन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्यांयतमानः, कोऽसौ? – 'अनगारः' प्रव्रजितः, एकत्वभावना भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किंच ‘सर्वतः' द्रव्यतो भावतश्च मुण्डो रीयमाणः' संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः 'अचेलः' अल्पचेलो जिनकल्पिको वा पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि नप्रकामतयेत्याह-'संचिक्खइ' संतिष्ठते अवमौदर्ये।न्यूनोदरतायांवर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दयितुमाह-'स' मुनिम्भिराक्रुष्टोवादण्डादिभिर्हतोवालुञ्चितो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy