________________
२४८
आचाराङ्ग सूत्रम् १/-/६/२/१९४
-: अध्ययनं -६ उद्देशकः २ :
वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्भयते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनाना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्म्मविधूननं स्याद्, अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्यादि सूत्रम्
मू. (१९४) आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अनुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला ।
वृ. 'लोकं' मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वायदिवा जन्तुलोकं कामरागातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च ' पूर्वसंयोगं मातापित्रादिसम्बन्धं, तथा 'हित्वा' गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयतिवसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः - श्रावकः, तदुक्तम्
119 11
"वीतरागो वसुर्ज्ञेयो, जिनो वा संचयोऽथवा । सरागोऽनुवसुः प्रोक्तः, स्थाविरः श्रावकोऽपि वा ”
तथा ज्ञात्वा 'धर्म्म श्रुतचारित्राख्यं यथातथावस्थितं धर्मं प्रतिपद्याप्यथैके मोहोदयात्तधविद्यभवितव्यतानियोगेन 'तं' धम्र्म्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः । कुत्सितं शीलं येषां ते कुशीला इति यत एव धर्मपालनाशक्ता अत एव कुशीलाः एवम्भूताश्च सन्तः किं कुर्युरित्याह
मू. (१९५) वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अनुपुव्वेण अनहियासेमाणा परीसहे दुरहियास, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्नः चेए।
वृ. केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यलब्धपूर्वो संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावदयशः कीर्त्यत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्र माचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्मवतीत्यतस्तद्दर्शयति
वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतद्ग्रहः' पात्रं कम्बलं ' और्णिकं कल्पं पात्रनिर्योगं वा ‘पादपुञ्छनकं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह-परीषहान् दुरधिसहनीयान् 'अनुक्रमेण' परिपाट्या यौगपद्येन वोदीर्णाननधिसहमानाः - परीषहैर्भग्ना मोहपरवशयतया पुरस्कृ तदुर्गतयो मोक्षमार्गं परित्यजन्ति । भोगार्थं त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह
'कामान्' विरूपानपि 'ममायमाणस्स' त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् 'इदानीं ' तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्त्तेन वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org