SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक: २४७ वृ. “भोः' इतिशिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामिभवतस्तद् ‘आजानीहि'-अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विधेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, धूतम्अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवेता भाव्यमिति । नागार्जुनीयास्तु पठन्ति - "धुतोवायं पवेयंति" अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वातयाऽभिसम्भूताः-सञ्जाताः,नपुनः पृथिव्यादिभूतानांकायाकारपरिणामतयाईश्वरप्रजापतिनियोगेनवेति, तेषुतेषूच्चावचेषुकुलेषु यथास्वंकर्मोदयापादितेषु अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायंक्रमः॥१॥ “सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपिघनं भवेत् " इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्तनादभिनिर्वृत्ताः, ततःप्रसूताःसन्तोऽभिसंवृद्धाः, धर्मश्रवण-योग्यावस्थायांवर्तमाना धर्मकथादिकंनिमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततःसदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्शभावनोपवृहितचरणपरिणामाअनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति ॥ अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह मू. (१९३) तंपरिक्कमंतंपरिदेवमाणामाचयाहि इयतेवयंति-छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति, अतारिसे मुनी नो ओहंतरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ?, एयं नाणं सया समनुवासिज्जासि-त्तिबेमि॥ वृ. 'तम्' अवगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितूपुत्रकलत्रादयः परिदेवमानामाऽस्मान्परित्यज 'इति' एतत्ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीताः छन्दोपनीताः-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो ‘जनका' रुवन्ति । एवं च यदेयुरित्याह-न ताशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्ड विप्रलब्धेन ‘जनका' मातापित्रादयः 'अपोढाः' त्यक्ता इति। सचावगतसंसारस्वभावोयत्करोति तदाह-नह्यसावनुरक्तमपिबन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपवगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तत्र' तस्मिन् गृहवासे सनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते ?, कथं गृहवासे द्वन्द्वी कहेतो विघटितमोहकपाटः सन् रतिं कुर्यादिति ? । उपसंहारमाह-एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि ‘सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं-६-उद्देशक : १ -समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy