SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/६/१/१९० मत्स्यकच्छपादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्मतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः ' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयानि उपतापयन्ति । यद्येवं ततः किमित्यत आह- 'पश्य' अवधारय 'लोके' चतुर्द्दशरज्वात्मके, कर्म्मविपाकात्सकाशात् 'महद्भयं नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्म्मविपाकान्महद्भयमित्याह २४६ मू. (१९१) बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अवलेण वहं गच्छन्ति सरीरेण भंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं, एयं पास मुनी ! महब्भयं नाइवाइज कंचनं । वृ. बहूनि दुःखानि कर्म्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवाप्नुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण 'प्रभङ्गुरेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसी विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह - मोहोदयादार्त्तः अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान्गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रक्र्त्तेरन्, नैतदबधारयेयुः यथा-स्वकृताबन्ध्यकर्म्मविपाकोदयादेतत्, तदुपशमाञ्च्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाहपश्यैतद्विमलविवेकावलोकनेन यथा 'नालं' न समर्थाः चिकित्साविधयः कर्म्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्वयमिति दर्शयति 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभिः ' पापोपादानभूतैश्चिकित्साविधिभिरिति । किं च- 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्त्रयस्वभाववेदिन्, महद्बृहद्भयहेतुत्वाद्भयं, यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत्' न हन्यात् कञ्चन प्राणिनं, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू नच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुराः कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना परक्रमेणेति । तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह मू. (१९२) आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्ढा अभिसंबुद्धा अभिनिक्कंता अनुपुव्वेण महामुनी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy