SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक: २४५ नानारूपाएव, प्रत्येकवनस्पतेर्दशयोनिलक्षाःसाधारणवनस्पतेश्चतुर्दशउभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्रचगतोऽसुमनानन्तमपिकालं छेदनभेदनमोटनादिजनितानानारूपावेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपिद्वौद्वौयोनिलक्षौ कुलकोट्यस्तुद्वीन्द्रियाणांसप्तत्रीन्द्रियाणामष्टी चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपिचत्वारोयोनिलक्षाःकुलकोटीलक्षास्तुजलचराणामर्द्धत्रयोदशापक्षिणांद्वादश चतुष्पदानांदशउरःपरिसप्पाणांदशभुजपरिसप्पणिांनववेदनाश्चनानारूपायास्तिश्चारसम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच ॥१॥ "क्षुत्तहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम्। ___ अहो ! तिरश्चामतिदुः-खितानां, सुखानुषङ्गः किल वार्तमेतद्" इत्यादि । मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति॥१॥ ___ "दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वेचापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥२॥ बाल्याअभृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः ॥३॥ क्षुत्तहिमोष्णानिलशीतदाहदारिधशोकप्रियविप्रयोगैः। दौर्भाग्यमौख्यानभिजात्यदारयवैरुप्यरोगादिभिरस्वतन्त्रः" इत्यादि । देवगतावपिचत्वारोयोनिलक्षाःषड्विंशतिः कुलकोटीलक्षाः तेषामपीष्याविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच ॥१॥ "देवेषुच्यवनवियोगदुःखितेषु, क्रोधेष्यामदमदनातितापितेषु। ____ आर्या ! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति" इत्यादि।तदेवंचतुर्गतिपतिताः संसारिणोनानारूप कर्मविपाकमनुभवन्तीत्येतदेवसूत्रेण दर्शयितुमाह-'सन्ति विद्यन्ते प्राणाः' प्राणिनः अन्धा चक्षुरिन्द्रियविकला भावान्धाअपिसद्विवेकविकलाः 'तमुसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चवचान्-तीव्रमन्दान् स्पर्शन्-दुःखविशेषान् 'प्रतिसंवेदयत्ति' अनुभवति । एतच्च तीर्थकृद्भिरावेदितमित्याह-'बुद्धैः' तीर्थकृभिः एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः'प्राणिनो 'वासकाः' 'वासृशब्दकुत्सायां वासन्तीतिवासकाः-भाषालब्धिसम्पन्नाद्वीन्द्रियादयः,तथारसमनुगच्छन्तीतिरसगाः-कटुतिक्तकषायादिरसवेदिनःसंज्ञिनइत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणांसम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरुपाएवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथाउदकेचरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकत्रसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy