SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ आचाराङ्गसूत्रम् १/-/६/१/१८७ वृ. वातपित्तश्लेष्मसन्निपातजंचतुर्द्धा गण्डं, तदस्यास्तीतिगण्डी-गण्डमालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा-'कुष्ठी' कुष्ठमाष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिशयजिहकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वंचैषांसर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठ २ ककुष्ठ ३ चर्मदल ४ परिसर्प ५ विसर्प ६सिम७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्यभवतीति । तथा-राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्यः कारणेभ्यो भवति इति, उक्तंच 'त्रिदोषो जायते यक्ष्मा, गदोहेतुचतुष्टयात् । वेगरोधात् क्षयाश्चैव, साहसाद्विषमाशनात्" तथा-अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतु , तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तंच॥१॥ "भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः" तथा 'काणियंति अक्षिरोगः, स च द्विधा-गर्भतस्योत्पएते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नंतेजोजात्यन्धं करोति, तदेवैकाक्षिगतंकाणं विधत्ते, तदेव रक्तानुगतंरक्ताक्षं पित्तातनुगतं पिङ्गाक्षं श्लेष्मानुगतंशुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्वन्तीति, उक्तंच॥१॥ “वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वेनेत्रामयाकरः" - इति, तथा-'झिमियंति जास्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियंति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुज्जियंति कुब्जं पृष्ठादावस्यास्तीति कुष्ठ मातापितृशोषितशुक्रदोषेण स्थदोषोमवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तंच॥१॥ "गर्भे वातप्रकोपेन, दौहदे वाऽपमानिते। भवेत् कुब्जः कुणिः पङ्गुर्मूको मन्मन एव वा" ___ -मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथामू. (१८८) उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवइं पीढसप्पिं च, सिलिवयं महुमेहणिं ॥ वृ.'उदरिं च'त्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदाः॥१॥ "पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमंतु, जलोदरं चेति भवन्ति तानि " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy