________________
२४१
श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशकः।
भावार्थस्तवयम्-कश्चिद्ह्रदोयोजनशतसहसविस्तीर्णःप्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयःतन्मध्येचैकं विलसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणविवरमभूत्, तत्र चैकेन कूर्मेण निजयूथात्प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्ध्रे ग्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्णं नमस्तलमीक्षाञ्चके, दृष्ट्वा चातीव मुमुदे, आसीच्चास्यमनसि-यदि तानि मद्वर्याण्येतत्स्वर्गदेश्यमहष्टपूर्वं मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति-- ___ अस्यायमर्थोपनयंः-संसारहदेजीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतःपुनः संसारहदान्तवर्तिनस्तदवाप्तिः?, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतंसम्यक्त्वंक्षणमप्येकंतत्रनप्रमादवताभाव्यमितितात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह - ‘भागा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान्सहमानाअपि सन्निवेशं स्थानं कर्मपरतयान त्यजन्ति, एवमित्यादिनादान्तिकमर्थ दर्शयति
‘एव'मिति वृक्षोपमया ‘अपिः' सम्भावने, 'एके कर्मगुरुवोऽनेकरूपेषुकुलेषूच्चावचेषु जाताधर्मचरणयोग्याअपिरूपेषुचक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषुचविषयेषु सक्ताः' अध्युपपन्नाः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताःअग्निदाहदग्धसर्वस्वानानानिमित्ताहिताधयोऽपिनसकलदुःखावासंगृहवासं कर्मनिघ्नास्त्यक्तुमलम्, अपितु तत्स्थाएव तेषुतेषु व्यसनोपनिपातेषु सत्सु ‘करुणं स्तन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम्॥१॥ "किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् ।
सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकणिो नरकादिवेदनामनुभवन्तःकरुणं स्तनन्तीति, नच करुणं स्तनन्तोऽप्येतस्मात्दुःखान्मुष्यन्ते इत्येतद्दर्शयितुमाह दुःखस्य निदानम् - उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठा नामिति ।दुःखविमोक्षाभावचयथा नानाव्याध्युपसृष्टाः संसारोदरेप्राणिनोविर्तन्तेतथादर्शयितुमाह 'अथ' इति वाक्योपन्यासार्थे पश्य त्वं तेपुच्चावचेषू कुलेषु, आत्मात्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्त त्याह-षोडशरोगवक्तव्यानुगतं श्लोकत्रयं, मू. (१८७) गंडी अहवा कोढी, रायसी अवमारियं ।
काणियं झिमियं चेव, कुणियं खुज्जियंतहा ॥ 116
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org