________________
२४०
आचाराङ्ग सूत्रम् 9/-/६/१/१८६
वृ. स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चवबुध्यमानोऽनावारकज्ञानसभावाद् 'इह ति मर्त्यलोके मानवेषु विषयभूतेषुधाख्याति स नरो भवोपग्राहिकर्मस
द्भावात्मनुष्यभावव्यवस्थितःसन्धर्ममाचष्टे, नपुनर्यथा शाक्यानांकुड्यादिभ्योऽपिधर्मदेशनाः प्रादुष्यन्ति, यथा वा वैशेषिकाणामुलूकमावेन पदार्थाविर्भावनम्, एवमस्माकं न , कथं ?घातिकर्मक्षयेतूत्पन्ननिरावरणज्ञानोमनुष्यभावापन्न एव कृतार्थोऽपिसत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति।
किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैःप्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपैसुष्ठु-शादिव्युदासेन 'प्रत्युपेक्षिताः प्रति उप-सामीप्येनईक्षिताः-ज्ञाता भवन्ति सधर्मामाचष्टे नापरइति।इदमेवाह-'आख्याति कथयति तीर्थकृत्सामा-न्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?
'ज्ञान' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ञान-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति ? - ‘अनीशं' नान्यत्रेध्मस्तीत्यनी शं, यदिशव सकलसंशयापनयनेन धर्ममाचक्षाण एवसआत्मनोज्ञानमनन्यसध्शमाख्याति । केषांपुनःसधर्ममाचष्ट इत्यत आह - 'स' तीर्थकृद्गणधरादिः कीर्तियति यथावस्थितान्भावान्प्रतिपादयति 'तेषां धर्मचरणाय सम्यगुत्थितानां, यदिवा उत्थिताद्रव्यतोभावतश्च, तत्रद्रव्यतः शरीरेण भावतोज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताःशृण्वन्ति, पुरुषास्तुद्रव्यतोभाज्याः, भावोत्थितानां तुधर्ममावेदयति उत्तिष्ठासूनांचदेवानां तिरश्चांच, येऽपिकौतुकादिनाश्रृण्वन्तितेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह
निक्षिप्ताः-संयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषांनिक्षिप्तदण्डानां, तथा समाहिताणं सम्यगाहिताः-तपःसंयमउद्युक्ताः समाहिताअनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् ‘इह' अस्मिन्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकंकीर्तयतीतिसम्बन्धः तस्यचतीर्थकृत साक्षाद्धर्ममावेदयतः केचन लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाहअपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासार्थे, एवंचतीर्थकृताऽऽवेदितेसत्येके-लब्धकर्मविवरा विविधं संयमसङग्रामशिरसिपराक्रमन्ते, परान्वाइन्द्रियकर्मरिपून आक्रमन्ते पराक्रमन्तइति
एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह - सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथाच कूर्मोमहादेविनिविष्टंचित्तंयस्यासौ विनिविष्टचित्तो-गार्द्धयमुपगतः पलाशैः-पत्रैःप्रच्छन्नः पलाशप्रच्छनः,सूत्रेतुप्राकृतत्वाद्वत्ययः, उम्मगतिविवरंउन्मज्यतेऽनेनेति वोन्मज्यम, उद्धर्वं वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org