________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः६
२३५ परिणामलब्धात्मलाभानां तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् ?, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितंवैचित्र्यं, कर्मणोऽनुपलब्धेः कुतएतदितिचेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तञ्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथासुखदुःखसुभगदुर्भगादिजगद्वैचित्र्यंस्यादिति।तथा साङ्ख्या एवमाहुः
___ यथा “सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्धयध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्कते ततः कैवल्यावस्थायां हृष्टाऽस्मीति निवर्त्तते' इत्यादिकंयुक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात्?, कुतो वाटेत्यात्मोपकाराय प्रवृत्तिर्नस्यात्?,अचेतनायास्तद्विकल्पा- सम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृ-वाद्यभावः स्यादिति, उक्तंच॥१॥ “न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् ।
नमोक्षसुखकाङ्क्षीवा, पुरुषो निष्क्रियात्मकः॥ ॥२॥ कःप्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि।
निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते?" इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात्ततःप्रतिनियतः कार्यकारणभाव एव नस्यात्, एकसन्तानान्तर्गतत्वास्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वं सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यात्किञ्चिदेतदिति, किंच॥॥ "यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे?।
नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि॥ ॥२॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति।
तदभावे बन्धः को बन्धाभावेच को मोक्षः?॥" इत्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निमर्यादतया जनतातिगानां न्यक्कारपदव्याघानमनुत्तरमेवोत्तरमिति । अपि च - ॥१॥ “अब्रह्मचर्यरक्तैर्मूढैः परदारर्षणाभिरतैः।
___ मायेन्द्रजालविषवप्रर्तिवतमसत्किमप्येतत् ॥" (तथा)॥२॥ "मिथ्या चष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या।
धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीद्दशोन्यः?॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org