SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ आचाराङ्ग सूत्रम् १/-/५/६/१७९ मू. (१७९) अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा एयं ते मा होउ, एवं कुसलस्स दंसणं, तद्दिट्टीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे । वृ. इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्यसामान्यतोऽभिधानम्, अनाज्ञा-अनुपदेशःस्वमनीषिकाचरितोऽ नाचारस्तयाऽनाज्ञयातस्यांवा 'एके इन्द्रियवशगादुर्गतिंजिगमिषवःस्वाभिमानग्रहग्रस्ताः सह उपस्थानेनधर्मचरणाभासोद्यमेन वर्तन्तइतिसोपस्थानाः,किल वयमपिप्रव्रजिताःसदसद्धर्मविशेषविवेकविकलाःसावद्यारम्भतया प्रवर्त्तन्ते, एकेतुनकुमार्गवासितान्तःकरणाः, किन्तुआलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह - _ 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोप स्थानत्वमित्येत् 'कुशलस्य तीर्थकृतोदर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणंकुशलस्यदर्शनमित्याह-कुमार्गपरित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्यतीर्थकृतोवा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषुपुर; करोतीति तत्पुरस्कारः-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशनः-सदागुरुकुलनिवासी॥सएवंभूतः किंगुणः स्यादित्याह मू. (१८०)अभिभूयअदखूअनभिभूएपभूनिरालंबणयाएजे महंअबहिमने, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा। वृ. 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत्, किं चनाभिभूतोऽनभिमूतः अनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः नात्र संसारेमातापितृकलत्रादिकमालम्बनमस्तीतितीर्थकृद्धचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाःप्रभुर्भवति? इत्येवंपृष्टेतीर्थकृत्सुधर्मस्वाम्यादिकोवाऽऽचार्योऽन्तेवासिनमाहयःपुरस्कृतमोक्षो महान् महापुरुषोलघुकाममाभिप्रायान विद्यतेबहिर्मनोयस्यासावबहिर्मनाः, सर्वज्ञोपदेशवर्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादःआचार्यपारम्पर्योपदेशःप्रवादस्तेन प्रवादेन प्रवादं-सर्वज्ञोपदेशं जानीयात्' परिच्छिन्द्यादिति। यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपिनतीर्थकृद्धचनाद्बहिर्मनो विधत्ते, तीर्थकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-पवाएण पवायं जाणिज्जा' प्रकृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम् - ॥१॥ “अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितोगच्छेत्स्वर्गंवा श्वभ्रमेवच॥" । इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विनसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy