________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५
२३३
संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नभिप्रार्थयेत्-नाभिलषेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनंच सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणमात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह
मू. (१७८) जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए-तिबेमि॥
वृ.य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता-पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्यचज्ञानत्मकत्वादिति।ज्ञानात्मनोरभेदाभिधानाद्वौद्धाभिमतंज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षित नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्तमेतत्तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपिनैकत्वापत्तिः,अत्रापिशुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीतिचेद्, अशिक्षितस्योल्लापो, यतःशुक्लगुणविनाशेसर्वथापटाभावापरि स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः?, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावेतद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपिप्रत्युत्पत्रज्ञानात्मनकतया विनाशेऽप्यपरामूर्तत्वासङ्खयेयप्रदेशताऽगुरुल-ध्वादिधर्मसद्भावादविनास एवेत्यलंप्रसङ्गेन। ननु च य आत्मास विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कतृत्वात्ततश्चय एवात्मास एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्,
'तथाहि-तत्करणं क्रिया वा भवेद् ?, यदि करणं तद्दात्रादिवभिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भेदसम्भवे कुत एक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-येन' मत्यादिनाज्ञानेन करणभूतेन क्रियारूपेणवा विविधं-सामान्यविशेषाकारतया वस्तुजानाति विजानाति आत्मा, नतस्मादात्मनोभिन्नंज्ञानं, तथाहि-नकरणतया भेदः, एकस्यापि कर्तृकर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्तआत्मानमात्मनापरिच्छिनत्ति, क्रियापक्षेपाक्षिको ह्यभेदोभवताऽप्यभ्युपगतएव, अपिच-'भूतिर्येषां क्रियासैव, कारकंसैवचोच्यत' इत्यादिनैकत्वमेवेति ।ज्ञानात्मनोश्चैकत्वेयद्भवतितदर्शयितुमाह-'तं' ज्ञानपरिणाम प्रतीत्य' आश्रित्यात्मा तेनैव 'प्रतिसङ्ख्यायते' व्यपदिश्यते,
तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह - ‘एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादीस्यात, तस्यचसम्यग्भावेन शमितयावा 'पर्यायः' संयमानुष्ठानरूपोव्याख्यातः इत्यधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत्॥
अध्ययनं-५-उद्देशकः-५-समाप्तः
- अध्ययनं-५-उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकःसाम्प्रतंषष्ठआरभ्यते, अस्यचायमभिसम्बन्ध-इहानन्तरोद्देशके इदोपमेनाचार्येणभाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच कुमार्गपरित्यागोरागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org