SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२९ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५ 'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तंन लभते, विचिकित्साकलुषिन्तान्तःकरणे हि कथयतोऽप्याचार्यस्य सम्यकत्वाख्यां बोधिं नावाप्नोति । यश्चावाप्नोति स गृहस्थो वास्याद्यतितिदर्शयितुमाह-सिताः'पुत्रकलत्रादिभिरवबद्धाः,वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके लघुकर्माणः सम्यकत्वं प्रतिपादनयन्तमाचार्यमनुगच्छन्ति-आचार्योक्तं प्रतिपद्यन्ते, तथा 'असितावा' गृहवासविमुक्तावा 'एके विचिकित्सादिरहिताआचार्यमार्गमनुगच्छन्ति। तेषांच मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतःप्रतिपद्येतापीतिदर्शयितुमाह-आचार्योक्तंसम्यकत्वमनुगच्छभिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्-अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ? - -असदनुष्ठानस्य, मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यकत्वमेव प्रतिपद्येतेत्यर्थः, यदिवासितासितैराचार्योक्तमनुगच्छद्भिः-अवगच्छद्भिःर्बुध्यमानः सद्भिः कश्चि-दज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्-अनवधारयन् कथं ननिर्विघेत? न निर्वेदं तपः संयमयोगच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां नचमेसंयतभावोऽप्यस्तीति, यतः स्फुटविकटमपिकथितनावगच्छामि, एवंच निर्विण्णस्याचार्याः समाधिमाहुः-यथा-भोः साधो! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यकत्वमभ्युपगतं, तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः॥ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाघन्यतमसद्मावे सति भवति,स च भवताऽवाप्ताः, तदेवंदर्शनचारित्रमोहनीयेभवतःक्षयोपशमंसमागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनःकथ्यमानेऽपिसमस्तपदार्थावगतिर्नभवति तज्ज्ञानावरणीयविजृम्भितं, तत्रच श्रद्धानरूपं सम्यकत्वामालम्बनमित्याह मू. (१७५) तमेव सच्चं नीसंकंजंजिणेहिं पवेइयं । वृ. यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धष्टा-तसम्यग्हेत्वभावाच ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपिशङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम्-अवितथं, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवंस्यात् एवंवा इत्येवमाकारासंशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तनिःशङ्क, यत्किमपिधमाधाकाशपुद्गलादिप्रवेदितं, कैः?-'जिनैः' तीर्थकरैरागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयंसम्यक्पदार्थानवगमेऽपि, नपुनर्विचिकित्सा कार्येति किंयतेरपि विचिकित्सास्यायेनेदमभिधीयते?,संसारान्तर्वर्तिनोमोहोदयात्तकत्किं? यन्नस्यादिति, तथा चागमः “अत्थिणं भंते ! समणावि निग्गंथा कंखामोहणिलं कम्मं वेदेति?, हंता अस्थि, कहन्नं समणावि निग्गंथा कंखामोहणिनं कम्मं वेयंति ?, गोअमा ! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखियाविइगिच्छासमावन्ना भेयसमावन्नाकलुससमावन्ना, एवंखलु गोयमा! समणावि निग्गंथा कंखामोहणिजंकम्मं वेदंति, तत्थालंबणं 'तमेव सच्चंनीसंकंजंजिणेहिं पवेइयं,' सनूनं भंते! एवं मणंधारेमाणे आणाए आराहए भवति?,हंता गोअमा! एवं मणंधारेमाणे आणाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy