________________
२२८
आचाराङ्ग सूत्रम् १/-/५/५/१७३ षट्त्रिंशद्गुणगणाधारो इदकल्पोनिर्मलज्ञानप्रतिपूर्णःसमेभूभागइतिसंसक्तादिदोषरहिते सुखविहारे क्षेत्रेसमोवाज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ?-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यद्दकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्तइत्येतत्पश्यआचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराइइह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्तेमहर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि ह्रदकल्पाः किम्भूताः?
प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तःप्रज्ञावन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धोः' प्रकर्षेण यथैव तीर्थकृदाहतथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपिकर्मगुरुत्वान्नसावद्यानुष्ठानविरतिं कुर्युरित्यतोविशेषयति- आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कुशाग्रीयया बुद्धया विचार्यमित्याह-एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतत्पश्यत_ 'कालः' समाधिमरणकालस्तदभिकाझ्या साधवोमोक्षाध्वनिसंयमे परिः-समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ,ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धापरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति॥ ___आचार्याधिकारंपरिसमापय्य विनेयवक्तव्यतामाह
मू. (१७४) वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अनुगच्छंति असिता वेगे अनुगच्छंति, अनुगच्छमाणेहिं अन्नुगच्छमाणे कहं न निब्बिजे ?
वृ.विचिकित्सा याचित्ताविप्लुतिः यथा इदमप्यस्तीत्येवमाकारायुक्तयासमुपपन्नेऽप्यर्थे मतिविभ्रमोमोहोदयाद्भवति, तथाहि-अस्यमहतस्तपःक्लेशस्यसिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवतिज्ञेयगहनत्वाच्च, तथाहि-अर्थस्त्रिविध;-सुखाधिगमोदुरधिगमोऽनधिगमञ्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्सायाविषय एवनभवति, देशकालस्वभावविप्रकृष्टस्तुविचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छत्ति विद्वज्जुगुप्सा, विद्वांसः-साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तङ्गास्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेदजलक्लिन्न मलत्वाद्दुर्गन्धिवपुषस्तानिन्दति__-को दोषः स्याद्यदि प्रासुकेन वारिणाऽगक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सा विद्वज्जुगुप्सांवा सम्यगापनः-प्राप्तःआत्मायस्यसतथातेन विचिकित्सासमापननात्मना नोपलभते Jain Education International
www.jainelibrary.org
For Private & Personal Use Only