________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक : ३
२१९
वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किंच - अन्येन प्रकारेणान्यथा - विषयकषायाभिभूतं हिंसादिकर्म्मसु प्रवृत्तं 'लोकं ' गृहस्थलोकं पाखण्डिलोकं वा पचनवपाचनौदेशिकसच्चित्ताहारादिप्रवृत्तमुठप्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुठप्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह - 'इति' पूर्वोक्तैर्हेतुभिर्यबद्धं कर्म्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह
'स' कर्म्मपरिहर्त्ता कायवाङ्गनोभिर्न हिनस्ति जन्तून् न घातयत्यपरैर्नाप्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानंसंयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति । किं च- 'नो पगब्मइ' 'गल्भ धाष्टर्ये' असंयमकर्म्मसु प्रवृत्तः सन्न प्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिह्नेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिर्न क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह - 'उत्प्रेक्षमाणः ' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येकं सातमुठप्रेक्षमाणश्च किं कुर्यादित्याह
वर्ण्यते-प्रशस्यते येन स वर्ण:- साधुकारस्तदादेशी वणदिशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा - तपः संयमादिकमप्यारम्भं यशः कीत्यर्थं नारभते, प्रवचनोद्मावनार्थं त्वारभते, तदुद्मावकाश्चामी
119 11
"प्रावचनी धर्म्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कविरपि चोद्मावकास्त्वष्टौ "
यदिवा वर्णो रूपं तदादेशी - तदभिलाषुकः नोद्वर्त्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन पापारम्भमारभेत इति, किं चमोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किंच-चरणं चारः - अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः 'प्रजास्वरतः प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः तदारम्भाप्रवृत्तो निर्मामत्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः सनिर्विण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरभ्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ।। यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह
मू. (१६८) से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा. जं मोणंति पासहा तं संमंति पासहा, न इमं सक्क. सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुनी मोनं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्ते मुणी, तिण्णे मुत्ते विरए वियाहिए -त्तिबेमि ॥
वृ. वसु-द्रव्यं, सचाम्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्वं सम्यगन्वागतं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International