________________
आचाराङ्ग सूत्रम् १/-/५/३/१६६ भवदुपदेशाद् अपि सिंहेनापि सह युद्धये, न मे कर्म्मक्षयार्थं प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह-अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्धं युध्यस्व इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषड्वर्गकर्मरिपुजयाद्वा सर्वं सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहेष्वपि दुष्प्रापेति दर्शयितुमाह
मू. (१६७) जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गब्भाइसु रज्जइ, अस्सि चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुनी, अन्नहा लोगमुवेहमाणे, इय कम्म परिन्नाय सव्वसो से न हिंसइ, संजमई नो पगब्भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचनं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निव्विण्णचारी अरए पयासु वृ. एतदीदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, सच भिन्नक्रमो, दुर्लभमेव दुष्प्रापमेव, उक्तं च
॥१॥
२१८
“ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम्
इत्यादि, पाठान्तरं वा - " जुद्धारियं च दुल्लहं" तत्रानार्यं सङग्रामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्धयस्व, ततो भवतोऽशेषकर्म्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्च भावयुद्धार्हं शरीरं लब्ध्वा कश्चित्तेनैव भवोनाशेषकर्म्मक्षयं विधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत्, कश्चिदपार्द्धपुद्गलपरावर्त्तेन, अपरो न सेत्स्यत्येव, किमित्येवं
यत आह
11
यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्मिः 'परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः' प्रज्ञापितः, सच मतिमता तथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानात्वं दर्शयन्नाह - लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्म्यं पुनरपि कर्म्मोदयात्तस्मात् च्युतो 'बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गार्द्धयमुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्म्माच्युतस्तत्करोति येन गर्भादिषुयातनास्थानेषु सङ्गमुपयाति, 'रिज्जइ' त्ति वा क्वचित्पाठः, रीयते - गच्छतीत्यर्थः । स्यात् क्वोक्तमिदं ?
यत् प्राग्व्यावर्णितमित्याह- 'अस्मिन्निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षेणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह - 'रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्त्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्त्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आनवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति। बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्रार्हते मार्गे इदमुच्यते यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्म्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः स्यादित्याह
'स' जितेन्द्रियो, हुरवधारणे, स एवैकः- अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः' सम्यग्विद्धः - ताडितः क्षुण्णः पन्थाः - मोक्षमार्गा ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभये' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org