________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:३
२१७
___ 'जे नो पुबुट्ठायी पच्छानिवाती', तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सतिधर्मिणिधर्मचिन्ता, तदुत्थानप्रतिषेधेचदूरोत्सादितैव निपातचिन्तेति।चतुर्थभङ्गदर्शनाय त्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनामावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभङ्गपतिता युक्तावक्तुं, तथाहि-तेषांसावद्ययोगानुष्ठानेनानुत्थानतयाप्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपिचतुर्थभङ्गपतितइत्यत आह-'सोऽपि' शाक्यादिर्गणः पञ्चमहाव्रतमारारोपणाभावेन सावधयोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वानोपश्चानिपातीत्यतस्ताश एवगृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषाम्प्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि येसावद्यानुष्ठायिनस्तेऽपिताध्क्षा एवेतिदर्शयन्नाह-येऽपि स्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह
मू. (१६६) एवं नियाय मुनिना पवेइयं, इह आणाकंखी पंडिए अनिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेन बुज्झओ?
वृ. 'एतद् यदुत्थाननिपातादिकंप्रागुपन्यस्तंतत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' कथितम्।इदंचान्य प्रवेदितमित्याह-इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितःसन् 'आज्ञा' तीर्थकरोपदेशमाकासितुंशीलमस्येत्याज्ञाकाङक्षी-आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः?- ‘पण्डितः' सदसद्विवेकज्ञः 'अस्निहः' स्नेहरहितः। रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यलवान् स्यादित्येतदाह-पूर्वरात्रं-रात्रेः प्रथमो यामोऽपररात्रं-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चाहयपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात्।
किंच-सदा सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमंवायदिवाचतुर्द्धाशीलमहाव्रतसमाधानंतिम्रोगुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्यमोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशीलनिव्रतानांचनरकादिपातविपाकमाकागमात्, ‘भवेत् स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझज्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्माश्रुत्वा स्यात् अकामोऽक्षश्चेत्यनेनचोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं।
ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्या टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्वयेनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org