________________
२१६
आचाराङ्ग सूत्रम् १/-/५/३/१६४
द्रव्येषुत्यक्तेषुसत्स्वपरिग्रहवन्तोभवन्ति,यदिवैतेष्वेवषट्सुजीवनिकायेषुममत्वाभावादपरिग्रहा भवन्ति। स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि वईत्तिसुब्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनांविधिनियमात्मकंवचनंनिशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?, उच्यते धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह-समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्यैर्द्धर्मः प्रवेदित इति, उक्तंच॥१॥ “जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति।
संथुणइ जो अनिंदति महेसिणो तत्थ समभावा' यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषुसमतया भगवताधर्मःप्रवेदितः, तथा चोक्तम्"जहा पुण्णस्स कत्थइ तहा तच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तभिः आर्यैः प्रकर्षणादौ वाधर्मोवेदितःप्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृ द्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तदव्युदासार्थं भगवानेवाह-'जहेत्थे' त्यादि, सदेवमनुजायांपर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा।
___'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गेसमभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स झोषितः-क्षपितः अतोय एव तीर्थकृभिर्द्धम्र्मोऽभिहितः स एवमोक्षमार्गोनापर इत्येतदेवाह-यथाऽत्र मया सन्धिझेषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गेसन्धिः-कर्मसन्ततिरूपः दुझेष्योभवति-दुःक्षयोभवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धियॊषितस्ततः किमित्याह
यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेणतपसा कर्मक्षपितंततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्यं 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥कश्चैवम्भूतः स्यादित्याह
मू. (१६५) जे पुव्वुट्ठाई नो पच्छानिवाई, जे पुव्वुट्ठाई पच्छानिवाई, जे नो पुबुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति।
वृ. यः कश्चिद्विदितसंसारस्वभावतया धर्माचरणैकप्रवणमनाः पूर्वं-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येतिपूर्वोत्थायीपश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतयाविहारीचगणधरादिवत्प्रथमोभङ्गः ।द्वितीयभङ्गसूत्रेणैवदर्शयन्नाहपूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथविधभवितव्यतानियोगात्पश्चानिपती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपिगोष्ठामाहिलवदिति।तृतीयभङ्गस्य चाभावादनुपादानं, स चायम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org