________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक-२
२१५
'लोग' इत्यादि, लोकस्य' असंयतलोकस्य वित्तं द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, लोकवित्तं लोकवृत्तंवाआहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयायपुनरुत्प्रेक्ष्य-ज्ञात्वाज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयापरिहरेततत्परिहर्तुश्च यत्स्यात्तदाह'एए संगे' इत्यादि, ‘एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा ‘अविजानतः' अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किंच
मू. (१६३) से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिक्कमा, एएसु चैव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अनगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मअनुवासिज्जासित्तिबेमि।
वृ. 'से' तस्य परिग्रहपरिहर्तुः सुष्ठुप्रतिबद्धं सुप्रतिबद्धं सुष्ट्पनीतं सूपनीतंज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष !' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षैकदष्टिर्वा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वापराक्रमस्वेति।अथ किमर्थं पराक्रमणोपदेश इत्यत आह‘एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्यं नान्येषु, नवविधब्रह्मचर्यगुप्तभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तंवक्ष्यमाणंचसर्वज्ञोपदेशादित्याह
‘से सुअंच मे' इत्यादि, तद्यत् कथितं यच्च कथयिष्यामितच्छुतंच मयातीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा अध्यात्मन्येव' ब्रह्मचर्येव्यवस्थितस्यैवेति।किंच-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ?- नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छतितत् 'तितिक्षेत' सहेत।पुनरप्युपदेशदानायाह-‘पमत्ते' इत्यादि, प्रमत्तान्विषयादिभिः प्रमादैर्बहिर्द्धाब्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्टा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च-'एय' मित्यादि, ‘एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तंसम्यग् ‘अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ।
अध्ययनं-५ - उद्देशकः २ - समाप्तः
-: अध्ययनं-५ - उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धःइहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (१६४)आवंती केयावंती लोयंसिअपरिग्गहावंती एएसुचेवअपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहाणिज्ज वीरियं ।।
वृ. यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org