________________
आचाराङ्ग सूत्रम् १/-/५/२/१६१
मू. (१६१) समुप्पेहमाणस्स इक्कायणरयस्स इह विप्पमुक्स नत्थि मग्गे विरयस्स त्तिबेमि वृ. सम्यगुप्रेक्षमाणस्य - पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आङ्अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत् इत्यायतनं ज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य किं च 'इह' शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ ?
‘मार्गो’ नरकतिर्यङ्गनुष्यगमनपद्धतिः, वर्त्तमानसामीप्ये वर्त्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्तकर्म्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, सुधर्म्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानि'ति यदुक्तं तव्प्रतिपादयन्नाह
२१४
मू. (१६२) आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चैव परिग्गहावंती, एतदेव एगेसिं महब्भयं भवइ, लोगवित्तंच णं उवेहाए, एए संगे अवियाणओ ।
वृ. यावन्तः केचन लोके ‘परिग्रहवन्तः ' परिग्रहयुक्ताः स्युस्तत (त्र) एवम्भूतपरिग्रहसद्भावादित्याह- 'से अप्पं वा' इत्यादि, तद्रव्यं यत्परिगृह्यते तदल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः, यदिवैतेष्वेट षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूच्छा कुर्व्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् ।
1
यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः तथाहि सरजस्कानामस्थ्यादिपरिग्रहदूबोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्त (न्तत ) श्च शरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - 'एतदेवे' त्यादि, एतदेव - अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुततद्वान् सर्व्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धम्र्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्म्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वी भत्संपरेषां महाभयं तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org