________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक - २
२१३
वृ. 'एषः' अनन्तरोक्तो यः परीषहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः - प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यक्पर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह - 'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्म्मस्वसक्ताः - पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान् तथाभूतान् साधून् 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीड्यन्ति । यदि नामैवं ततः किमित्याह
‘इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहतवान्-व्याकृतवान्, कोऽसौ ? - 'धीरो' धीः बुद्धिस्तया राजते, स च तीर्थकृद्गणधरो वा, किं तदुदाहतवान् ? -तैरातङ्गैः स्पृष्टः सन् तान् स्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह- 'से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्गैरेतद्भावयेद् यथा पूर्वमप्येतद् असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्म्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारध्ष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति
उक्तंच
॥ १ ॥ स्वकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते"
अपिच-एतदौदारिकं शरीरंसुचिरमप्यौषधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशरार्व्विति दर्शयन्नाह - 'भिदुरधम्म' मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्म्मस्वभावमित्याह - 'भिदुरधम्म ' मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म्म, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वसंनधर्मं पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, -
अत एव विविधः परिणामः अन्यथाभावात्मको धर्म्मः स्वभावो यस्य तद्विपरिणामध यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्च्छा ?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-‘पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधम्र्म्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभवसरात्मकं दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥
एतत्पश्यतश्च यत्स्यात्तदाह
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org