________________
२१२
आचाराङ्ग सूत्रम् १/-/५/२/१५९ 'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, तथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरितिप्रथमाकृतेति, 'अय'मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः' अवसरोमिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवान्तित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह___'जेइमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः 'अस्य' अध्यक्षस्य विशेषेणगृह्यतेअनेनाष्टप्रकार कर्म तद्वैतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य ‘अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्चगतः एवम्भूतश्चभावीत्येवंयःक्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-“एस मग्गे' इत्यादि, ‘एषः' अननन्तरोक्तो ‘मार्गो' मोक्षपथः 'आर्यैः' सर्वहयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितःप्रवेदित इति। न केवलमनन्तरोक्तो वक्ष्यमाणश्चतीर्थकरैःप्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह
'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकंदुःखं तदुपादानं वा कर्म तथा प्रत्येकंसातंचमनअह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो' इत्यादि, पृथग्-भिन्नः छन्द:-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे ति संसारे संज्ञिलोके वा, केते? -'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि,संज्ञिनांपृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह–'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक्प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्गेइति । एतन्मत्वा किं कुर्यादित्याह
'से' इत्यादि, सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायीप्राणिनोविविधैरुपायैरहिंसन् तथाऽनपवदन्–अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णनित्याद्यप्यायोज्यम् । एतद्विधायीच किमपरंकुर्यादित्याह-'पुट्ठो' इत्यादि, सपञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान्वा तत्सहिष्णुतयाअनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिःप्रेरयेत्, तत्प्रेरणं च सम्यक्सहनं, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् । यो हि सम्यक्करणतया परीषहान् सहेत स किंगुणः स्यादित्याह
मू. (१६०) एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहुधीरेतेफासे पुट्ठोअहियासइ, सेपुदिपेयंपच्छापेयंभेउरधम्मविद्धंसणधम्ममधुवं अनिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं स्वसंधिं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org