SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः१ २११ यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपिकिंब्रूयादित्याह-'उट्ठिय'इत्यादि, धर्माचरणायोधुक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन्, तीर्थकोऽप्येवमाह-यथा अहमपि प्रव्रजितो धर्माचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति । स चोत्थितवादी आवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-मामे'इत्यादि, मामा केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतःप्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किंच___सयय'मित्यादि, 'सततम्' अनवरतंमूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, नविवेचयतीत्यर्थः। यद्येवंततः किमित्याह-'अट्टा' इत्यादि, आर्त्ता विषायकषायैः 'प्रजायन्त' इतिप्रजाः-जन्तवः हेमानव!, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, कर्मणि अटप्रकारे विभंसते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्मं नाभिजानन्ति कर्मबन्धकोविदाश्चेति?,अतआह-'जेअनुवरया' इत्यादि,येकेचनानिर्दिष्टस्वरूपाः अनुपरताः' पापानुष्ठानेभ्योऽनिवृत्ताज्ञानदर्शनचारित्राणिमोक्षमार्ग इत्येषाविद्याअतो विपर्ययेणाविद्या तया परि-समन्तात्मोक्षमाहुः तेधर्मनाभिजानन्त इति सम्बन्धः,धर्ममजानानाश्चकिमाप्नुयुरित्याह'आवट्ट' इत्यादि, भावावतः-संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते,तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-५ - उद्देशक :- १ समाप्तः अध्ययनं-५-उद्देशकः२:वृ.उक्तःप्रथमोद्देशकः, साम्प्रतंद्वितीयःसमारभ्यते, अस्यचायमभिसम्बन्धः-इहप्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् मू. (१५९) आवन्ती केयावन्ती लोए अनारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसि एस मग्गे आरिएहिं पवेइए, उट्ठिएनोपमायए, जाणित्तुदुक्खंपत्तेयंसायं, पुढोछंदाइहमाणवापुढोदुक्खंपवेइयंसेअविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुनए। वृ. 'यावन्तः' केचन ‘लोकें मनुष्यलोके 'अनारम्भजीविनः' आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगोवा, उक्तंच॥१॥ “आदाने निखेवे भासुस्सग्गे अठाणगमणाई। सव्वो पमत्तजोगो समणस्सवि होइआरंभो" तद्विपर्ययेणत्वनारम्भस्तेनजीवितुंशीलंयेषांइत्यनारम्भजीविनोयतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषुपुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवति, सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनःसाधवः पङ्काधारपङ्कजवनिर्लेपा एव भवन्ति।यद्येवंततः किमित्याह-'अत्र' अस्मिन् सावद्यारम्भेकर्तव्ये उपरतः सङ्कुचितगात्रः, अत्रवाऽऽर्हतेधर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात्स?-'तत्' सावद्यानुष्ठानायातं कर्म ‘झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy